________________
( १५४ )
मुनिचन्द्रसूरिविरचितवृत्तिसमेतं
त्रीण्येव च ज्ञानानि न पुनरज्ञानान्यपि अनुत्तरविमानवासिनाम्, पवित्रसम्यग्दर्शनज्ञानचारित्रपात्राणामेव जन्तूनां तत्रोत्पादादिति ॥ ३३८ ॥ अथात्रैव जघन्यमुत्कृष्टं चावधिं देवेषु प्रतिपादयन् गाथाचतुष्टयमाह -
सव्वे जहन्न्रोही, अंगुलभागो भवे असंखेज्जो । उडूं सगा विभाणा, तिरियं दीवोदधिमसंखा ॥ ३३६ ॥ 'सर्वेषु' सौधर्मादिषु देवस्थानेषु जघन्योऽवधिः, कियान् ? इत्याह-. अङ्गुलभागो भवेदसंख्येयः, विषय [विषयि]णोरभेदोपचारादेतदुक्तम्, अन्यथाऽङ्गुलाऽसंख्येयभागमात्रक्षेत्रव्यवस्थितमूर्त्तद्रव्यराशिस्तस्य विषयों वर्तत इति वक्तुमुचितम् । क्षेत्रप्रस्तावात्प्रमाणाङ्गलमेतदित्येके व्याचक्षते । `अन्ये त्ववधेः शरीरावस्थितत्वात् शरीरस्य चोत्सेधाङ्गुलेनैव प्रतीयमानत्वात् तदपेक्षयैवावधिविषयक्षेत्रप्रमाणमद इति ब्रुक्ते । एतच्चोत्पत्तिकाल एवापर्याप्तावस्थायां मन्तव्यम् । उत्कृष्टतस्तूर्ध्व 'स्वकाद्विमानात् ' स्वकविमानाग्रभागं यावदित्यर्थः । ' तिर्यग्' इति तिर्यक्क्षेत्र द्वीपोदधयोऽसंख्येयाः अवधेर्विषयः, परमुपर्युपरिवर्त्तिनो देवास्तानेव बहुबहुतरान् पश्यन्तीति ॥ ३३९ ॥ अवश्व
सकीसागा पढमं दोच्चं च सकुमारमाहिंदा ।
तच्चं च बंभलंतग, सुकसहस्सारग चथीं ॥ ३४० ॥ ' शक्रेशानौ' इन्द्रौ उपलक्षणत्वादिन्द्रसामानिका अपि ' प्रथमां ' रत्नप्रभां यावत्पश्यन्तीत्युत्तरेण योगः । ' द्वितीयां च ' शर्कराप्रभां पुनर्यावत्सनत्कुमारमाहेन्द्राविन्द्रौ । तृतीयां च [ पृथ्वीं ] ब्रह्मलान्तकौ । शुक्रसहस्रारौ चतुर्थी पृथ्वीं यावदिति ॥ ३४० ॥
श्राणपाणयकप्पे, देवा पासंति पंचर्मि पुढविं ।
"
तं चैव आरणच्चुय, ओहीनाणेण पासंति ॥ ३४९ ॥