________________
देवेन्द्रप्रकरणम्।
(१५३). 'मिथ्या ' मिथ्यात्वलक्षणा 'सम्यग्मिथ्या ' मिश्ररूपा 'सम्यग्दृष्टिश्च' सम्यग्ल(क्त्वल)क्षणा इत्येतास्तिस्रो दृष्टयः · देवेषु ' सौधमादिदेवलोकगतेषु मुणितव्याः । ज्ञानद्वारमुपक्षेप्तुमाह-ज्ञानं 'तुः' विशेषणार्थः अतः परं वक्ष्य इति ॥ ३३६ ॥
नाणी अन्नाणी वि य, सव्वे त्रि सुरा उ जाव गेवेज्जा ।
उवनोगो पुण दुविहो, सागारो चेवऽनागारो ॥ ३३७ ॥ - ‘झौनिनः ' मतिश्रुतावधिरूपबोधत्रयभानः ‘अज्ञानिनोऽपि च ' मत्यज्ञानश्रुताज्ञानविभङ्गलक्षणाज्ञानवन्तश्च सर्वेऽपि सुराः 'तुः' पूरणार्थ यावद् ग्रैवेयकाणि । उपयोगः पुनर्द्विविधः सर्वदेवेषु 'साकारः' [सामान्यविशेषस्वभावे वस्तुनि ] विशेषग्रहणरूपः, 'चैव' इति भि
नक्रमे, ततः ' अनाकारश्चैव' सामान्यविशेषस्वभावे वस्तुनि सामा• न्यांशग्रहणरूप इति ॥ ३३७ ॥ इदानीं योगद्वारम्
तिविहो य होइ जोगो, मणवइकारण जो (सो) मुणेयव्यो ।
तिगमेव य नाणाई, अणुत्तरविमाणवासीणं ॥ ३३८ ॥ . . त्रिविधश्च भवति, कः ? इत्याह-'योगः ' जीवपरिस्पन्दात्मको व्यापारः । त्रैविध्यमेव भावयति–' मनोवाकायेन ' इति मनसा वैक्रियशरीरप्रयत्नाहृतमनोवर्गणान्तर्गतमनोद्रव्यसमूहलक्षणेन, एवं वचसा, नवरं भाषावर्गणान्तर्गतवाग्द्रव्यसमूहमयेन, कायेन वैक्रियवर्गणारुधदेहलक्षणेन । एष योगो यथाक्रमं चिन्ताभाषागमनागमनादिक्रियाफलो देवान् (देवानाम् ) [मुणितव्यः] । उक्तं च—'मणसा वयसा कारण वा वि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिजो, स जोगसन्नो - निणक्खाओ ॥ १॥" अथ प्रागुक्तज्ञानद्वारमेवाधिकृत्य किञ्चिदाह