________________
( १५२)
भुनिचन्द्रसूरिविरचितवृत्तिसमेत
दोसुं तु तेउलेसा, तीसु य कप्पेसु पम्हलेसागा । ते पर सुकलेसा, देवा सव्वे वि विणणेया || ३३५ || ' द्वयोः ' कल्पयोः सौधर्मेशानयोः 'तुः ' पूर्ववत् तेजोलेश्या देवानाम् । ' त्रिषु च कल्पेषु ' सनत्कुमारमाहेन्द्रब्रह्मलोकलक्षणेषु 'पद्मले -' ' पद्मकेसरवल्लेश्या येषां ते तथा । ' तेण पर ' त्ति ततः परं . शुक्ललेश्या देवाः ' सर्वेऽपि ' इन्द्रसामानिकत्रायस्त्रिंश लोकपालादयोविज्ञेया इति । लेश्या नाम लिश्यते - लिप्यते आभिर्जीवः कर्मणेति लेश्याः, ताश्च द्रव्यभावभेदाद्विभेदाः । तत्र द्रव्यलेश्या - यानि किल द्रव्यायाश्रित्य जीवस्य स्फटिकमणेरिव कृष्णादिभावलेश्यापरिणामः प्रवर्त्तते
श्याकाः
द्रव्यभिद्यमानानि द्रव्यलेश्या इति । तंत्र भ्रमराङ्गारकाककोकिलादिसमानवर्णा कृष्णलेश्या । शेषास्तु नीली- कपोती - तैजसी - पद्माशुक्लाभिधाना लेश्या यथाक्रमं कदलीदल - कपोतच्छद - जपाकुसुम-कमलकेशर-हंससदृशप्रकाशा विज्ञेया इति । यथोक्तम् — “ किन्हा भमरसवण्णा, नीला पुण गवलगुलियसंकासा । काऊ कवोयवण्णा, तेऊ तवणिज्जवण्णाभा ॥ १ ॥ पम्हां पउमसवण्णा, सुक्का पुण कुसुमकाससंकासा । " इति । भावलेश्या पुनर्मिथ्यात्वा संयमकषायानुरक्तयोगः प्रवृत्तिरूपः कर्मपुद्गलादानहेतुर्द्रव्यलेश्याजनितो जीवपरिणामः । एताश्च द्रव्यलेश्या इहाधिक्रियन्ते न पुनर्भावलेश्याः । यथोक्तम् —
"1
देवाण नारयाण य, दव्वल्लेस्सा हवंति एयाओ । भावपरावतीए, सुरनेरइया उ छल्लेसा ॥ ९ ॥ " इति ॥ ३३५ ॥ अथ दृष्टिद्वारम् --- मिच्छा सम्मामिच्छा, सम्मद्दिट्ठी य तिरिण दिट्ठी । देवेसु मुणेयव्त्रा, नाणं तु अओ परं वोच्छं ॥ ३३६ ॥