________________
- देवेन्द्रप्रकरणम्। (१५१) जइ जस्सयराइँ ठिदी, तदि मासद्धेहि तस्स उस्सासो। तदि वाससहस्सेहि य, आहारो उवरिमसुराणं ॥ ३३३ ॥
'जइ' ति यावन्ति यस्य ' अतराणि' सागरोपमा[णि] स्थितिः 'तइ ' त्ति तावद्भिः ' मासाः ' पञ्चदशदिनरूपैः । तस्य ' देवस्य 'उच्छ्रासः' इति उच्छासनिःश्वासौ प्रवर्तते । तथा ' तइ' त्ति तावद्भिः खस्थितिसागरोपमप्रमाणैर्वर्षसहस्रैः 'च: ' पुनरर्थः 'आहारः' - मानसाभ्यवहारलक्षणः संपद्यते । केषाम् ? इत्याह-' उवरिमसुराणं' ति उपरितनसुराणां सौधर्मादिवास्तव्यदेवानाम् । प्रायःपक्षापेक्षमेतत् , अन्यथा चमरवल्योरप्येकसागरोपमसाधिकसागरोपमस्थितितया पक्षणोच्छासो वर्षसहस्रेण चाहारः प्रवर्तते । सागरोपमाधःस्थितीनां तु देवानामाभ्यां गाथाभ्यामाहारोच्छ्वासविधिर्विज्ञेयः--" दसवाससहस्साइं, जहण्णमाउं धरन्ति जे देवा । तेसि चउत्थाहारो, सत्तहि थोवेहि उस्सासो ॥ १ ॥ दसवाससहस्साई, समयाई जाव सागरं उणं । दिवसमुहुत्त हुत्ता, आहारूसास सेसाणं ॥२॥” इति ॥ ३३३॥ 'अंथ वक्तव्यान्तरविवक्षया द्वारगाधामाह- लेस्सा दिट्ठी नाणे, उवओगे चेव होइ जोगे य । .. तत्तो य समुग्घाओ, विउव्वणा साय इड्डी य ॥ ३३४ ॥ ...' लेश्या " तेनोलेश्यादिका 'दृष्टिः ' मिथ्यादृष्टयादिका ' ज्ञानं मत्यादिकं 'उपयोगश्चैव' साकारानाकारभेदो भवति वक्तव्यः । योगश्च' मनोवाक्काययोगादिः ' ततश्च' तदनन्तरं ' समुद्रातः' वैक्रियसमुद्धातः 'विकुर्वणा ' वैक्रियकरणशक्तिप्रमाणं ' सातं' सुखं 'ऋद्धिश्च' परिवारादिकेति ॥३३४॥ अथैनामेव द्वारगाथां गाथादशकेन व्याचष्टे