________________
देवेन्द्रप्रकरणम्। (१९७) तिलोपश्च प्रारूतत्वात् । 'चतुर्दिशि' चतसृषु दिक्षु भवन्ति चत्वारि विमानानीति ॥ २६५ ॥ - एवंणामा उ भवे, कप्पविमाणा हवंति विण्णेया।
जे उत्तरेण इंदा, तेसिं खलु होति पचेयं ॥ २६६ ॥
इयं च गाथा व्याख्याताथैव, परं ये तु उत्तरेणेन्द्रास्ते ईशानमाहेन्द्रलान्तकसहस्रारप्राणताच्युतनामानः षड़ वक्तव्या इति ॥२६६॥ यत्र च प्रस्तटे एतानि यच्च मध्यविमानस्य नाम तद्दर्शयितुमाहपंच वि कप्पविमाणा, उवरि कप्पाण होति नायव्वा । मज्झिल्ला य विमाणा, कप्पसरिसनामया होति ॥ २६७ ॥ पञ्चापि न केवलमेकड्यादय इत्यपिशब्दार्थः, कल्पविमानाः — उवरिं' ति उपरितनप्रस्तटे त्रयोदशद्वादशादौ — कल्पानां ' स्वदेबलोकानां भवन्ति ज्ञातव्याः । दाक्षिणात्यानामिन्द्राणां दक्षिणस्यां दिशि, औदीच्यानामुत्तरस्यां दिशि । 'मध्यमाश्च' मध्यविमानाः पुनः कल्पसदृशनामका भवन्ति, केचित्सौधर्मेशानादिकल्पसमाननामान इत्यर्थः । यथा सौधर्मावतंसक ईशानावतंसक इत्यादीनि ॥ २६७ ॥ • संप्रति त्रायस्त्रिंशेन्द्रसामानिकादिसंबन्धिविमानवक्तव्यतामाह
तावत्तीसाण उ कंचणाई सामाणियाण सयकता। पत्तेयविमाणा दक्खिणेण कप्पेसु तिसु होति ॥ २६॥ . 'त्रायस्त्रिंशानां तु ' त्रायस्त्रिंशनाम्नां त्रयस्त्रिंशत्संख्यानां च पितुज्यादिमहत्तरस्थानीयदेवानां पुनः काञ्चनानि ' काञ्चनमयत्वेन प्राप्तकाश्चनाभिधानानि 'सामानिकानां' इन्द्रसमानरूपायुप्कादिगुणग्रामाणां देवविशेषाणामेव ' शतकान्तानि ' शतकान्तरत्नविशेषमयानि 'प्रत्ये