________________
(११८) मुनिचन्द्रसूरिविरचितवृत्तिसमेत कविमानाः ' इति प्रत्येकविमानान्येकैकस्य त्रायस्त्रिंशस्य सामानिकस्य
कैकं विमानमित्यर्थः 'दक्षिणेन ' दक्षिणस्यां दिशि व्यवस्थितेषु 'कल्पेषु' देवलोकेषु 'त्रिषु' सौधर्मसनत्कुमारब्रह्मलोकनामसु. भवन्तीति ॥ २६८॥ . सयज्जलेसु समाणा, तावत्तीसा य कंचणपहेसु । .
पत्तेयविमाणा उत्तरेसु कप्पेसु दुसु होति ॥ २६ ॥ .. 'शतज्वलेषु' शतज्वलनामकरत्नमयेषु विमानेषु 'समानाः' सदृशा इन्द्रेणेन्द्रसामानिका इत्यर्थः, दीर्घत्वं च प्राकृतत्वात् , वायस्त्रिंशाश्च 'काञ्चनप्रभेषु' काञ्चनप्रभरत्नमयेषु.वसन्ति । एते च सामानिक-: प्रायस्त्रिंशावासभूताः प्रत्येकविमानाः ‘उत्तरयोः' ईशानमाहेन्द्रयोः कल्पयोईयोर्भवन्ति । अन्येषु देवलोकेषु मनागमन्दरागद्वेषत्वेन सामा'निकत्रायस्त्रिंशानामेकविमानेऽपि निवाससंभवादयमित्थं नियमः कृतः । इयं च गाथा " विषमाक्षरपादं च " इत्यादिगाथानुलक्षण(गाथालक्षणानुसारिणी विज्ञेयेति ॥ २६९ ॥ ,
संधप्पभं च सोमस्स, वरसिंह जमस्स उ । सयजलं वरुणस्स, वग्गु वेसवणस्स उ ॥ २७० ।। सन्ध्याप्रमं च ' सोमस्य ' पूर्वदिग्लोकपालस्य, वरशिष्टं — यमस्य तु' यमनाम्नो लोकपालस्य पुनः, शतज्वलं 'वरुणस्य' पश्चिमाशापतेः, वल्गु ' वैश्रमणस्य तु ' उत्तरदिक्पालस्य पुनरिति ॥ २७० ॥
एवंनामा चत्तारि विमाणा जाव बंभलोगो उ । जे दाहिणेण इंदा. तेसिं खलु लोगपालाणं ॥ २७१ ॥ एवंनामानश्चत्वारो विमानास्तावन्नेया यावद् ब्रह्मलोकः 'तुः' पूरणार्थः,