________________
(११६) मुनिचन्द्ररिविरवितवृतिसमेतं
. 'पूर्वेण '- पूर्वस्यां दिशि सौधर्मावतंसकविमानात् 'तुः ' प्राग्वत 'वैडूर्य' वैडूर्यनामकं विमानम् , रुचकं पुनर्दक्षिणे दिग्भागे, 'अपरेण' अपरस्यां दिशि ‘अशोकं अशोकाभिधानम् , पुनः मसक्कसारं' मसकसाराभिधानं 'क' समुच्चये 'उत्तरतः' उत्तरस्यां दिशीति ॥२६३॥
एवंणामा उ भवे, कप्पविमाणा हवंति विण्णेया। जे दक्खिणेण इंदा, तेसिं खलु होति पत्तेयं ।। २६४ ॥ .. एवंनामान एव तुशब्दस्यैवकारार्थत्वात् भवः-संसारस्तदेकदेशत्वाद्भवः-देवलोकस्तत्र, कल्पः-समस्तो देवलोकस्तत्प्रतिमविभूतिभाजनत्वेन कल्पभूतविमानाः कल्पविमाना भवन्ति विज्ञेयाः, ते च ये 'दक्षिणेन ' दक्षिणस्यां दिशि ‘इन्द्राः' शकसनत्कुमारब्रह्ममहाशुक्रलक्षणास्तेषां ' खलु: ' वाक्यालङ्कारे भवन्ति प्रत्येकम् । इह किलाच्युतपर्यन्तेषु द्वादशसु कल्पेषु प्रथमदृतीयपञ्चमसप्तमदेवलोकगता इन्द्रा दाक्षिणात्या इति परिभाष्यन्ते, शेषाश्च षडौदीच्याः । दक्षिणोत्तरयोर्दिशोः केवलतदाभाव्यपञ्चपञ्चविमानानां क्रमेण शास्त्रान्तरे वर्णनात्। ततस्तेषां दाक्षिणात्यानामिन्द्राणां मध्यविमानापेक्षया पूर्वादिदिग्गतानि चत्वारि चत्वारि वैडूर्यादीनि विमानानि भवन्तीति ॥२६॥
रुयगे य मंदरे या, अस्सोगे चेव सत्सवण्णे य । पुवादिआणुपुव्वी, चउदिसि होति चत्तारि ॥ २६५ ॥ .
रुचकश्च मन्दरश्चाशोकश्चैव सप्तपर्णश्च 'पुव्वाइआणुपुब्वि' त्ति, इह किलानुपूर्वी त्रिधा-पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति, ततश्चानुपूर्व्यन्तरव्यवच्छेदार्थमाह-पूर्वा दिग् आदिर्यस्याः सा पूर्वादि सा चासावानुपूर्वी च पूर्वाद्यानुपूर्वी तया पूर्वानुपूर्येति भावार्थः । विभ