________________
(११४) मुनिचन्द्ररिविरचितवृत्तिसमेत
एतच्च प्रमाणं प्रमाण [अङ्गुल] योजनापेक्षया । तच्च प्रमाणाङ्गुलमेव कथं निप्पद्यते ? इति तावदगुलमेव प्रतिपाद्यते. इह त्रिविधमङ्गुलम्-आत्माङ्गुलं उत्सेधाङ्गुलं प्रमाणाङ्गुलं चेति । तत्र ये यत्र युगे पुरुषाः स्वकीयाङ्गुलाष्टोत्तरशतसमुच्छ्रितदेहास्तेषां यत्स्वकीयाङ्गुलं तदात्माङ्गुलमित्युच्यते, अनियतप्रमाणं चेदम्, युगे युगेऽपरापरदेहप्रमाणानां पुरुषाणां भावात् । उत्सेधाङ्गुलं तु-" परमाण. रहरेणू , तसरेणु अग्गयं च वालस्स।" इत्यादिक्रमेणानुयोगद्वारनिरूपिते [न] लब्धात्मलामं सर्वयुगेष्वपि प्रतिनियतैकम्वरूपं सूत्रधारकं वि....हस्तनिष्पत्तिहेतु । प्रमाणाङ्गुलं तु भरतचक्रवर्तिहस्ताङ्गुष्ठरेखातुल्य- : विष्कम्भायामबाहल्यम् , तच्च किलोत्सेधामुलापेक्षया चत्वारि शतान्यायामेन सूच्येत्यर्थः, सा. हे अङ्गुले विष्कम्भेणाङ्गुलं च बाहल्येनेति । एवं चायामस्य विष्कम्भगुणने उत्सेघाङ्गुलप्रमाणानां चतुरस्राणामङ्गुलप्रमाणमात्रबाहल्यानां क्षेत्रखण्डानां गणितंव्यवहारेण सहस्रप्रमाणानां लाभादुत्सेधाडुलक्षेत्रमपेक्ष्य प्रमाणाङ्गुलक्षेत्रं सहस्रगुणं भवति, उक्तं च-" उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं ।" इति । मेयविषयश्चैतेषामित्थमवसेयः-" आयंगुलेण वत्युं, उस्सेहपमाणओ मिणसु देहं । नगपुढविविमाणाई, मिणसु पमाणंगुलेणं तु ॥ १ ॥” इह च नगएथ्व्यादिप्रमाणप्रज्ञापनायां प्रमाणाङ्गुलक्षेत्रलब्धमुत्सेघाङ्गुलसहस्रं कल्पनया श्रेणिरूपतया व्यवस्थाप्य व्यापार्यत इत्येके मन्यन्ते । अन्ये पुनः प्रमाणाङ्गुलसूचिरुत्सेधाङ्गुलशतचतुष्टयप्रमाणाऽऽपाद्यत इति व्याकुर्वते । अनुयोगद्वाराणां चूणौँ वृत्तौ च पुनरित्थमुपलभ्यते-“जे य
, " परमाणु तसरेलू रहरेण अग्गयं च बालस्स।" इत्यपि पाठः । .