SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ देवेन्त्रकरणम्। र्णानां विमानानामिति ॥ २९९ ॥ आदिमान्त्ययोर्विमानेन्द्रयोः प्रमाणं प्रतिपादयन्नाह.. पढमं उडूविमाणं, पणयालीसं भवे सयसहस्सा। . __एगं च सयसहस्सं, भणियं सवठ्ठसिद्धं तु ॥ २६॥ 'प्रथम' प्रथमप्रस्तटवर्तितया 'उडुविमानं' श्रेणिगतविमानप्रज्ञापनाविधिभूतं पञ्चचत्वारिंशद्भवेच्छतसहस्राणि योजनानामायामतो विष्कम्मतश्च, सर्वतो वृत्तरूपत्वात्तस्य । 'एकं च ' एकं पुनर्योजनानां शतसहस्रं भणितं 'सवार्थसिद्धं ' समस्तविमानोपरिवति । 'तुः' पादपूरणार्थः ॥ २६० ॥ शेषेन्द्रकप्रमाणप्रतिपादनायाह-- तेण परं सेसाणं, पयराणं जे भवे विमाणिंदा । वित्थारेण असंखाइँ सयसहस्साइँ वित्थिरणा ॥ २६१ ॥ . 'तेन परं' इति ततः परं 'शेषाणां' उडुप्रस्तट [ सर्वार्थसिद्ध प्रस्तंट ] व्यतिरिक्तानां प्रतराणां संबन्धिनो ये भवेयुः ' विमानेन्द्राः' इन्द्रकनामानो विमानाः, [ते ] किम् ? इत्याह-विस्तारेणासंख्येयानि योजनानां शतसहस्राणि विस्तीर्णा इति ॥ २६१ ॥ संप्रतीन्द्रकरहितावलिकाप्रतिबद्धपुप्पावकीर्णविमानविस्तारप्रमाणप्रतिपादनायाह आवलियाहिँ विमाणा, वित्यारेण भणिया असंखेजा। संखेजमसंखेजा, भणिया पुप्फावकिराणा उ ॥ २६२ ॥ आवलिकासु विमाना विस्तारेण भणिताः ‘असंख्येयाः' असंख्येययोजनप्रमाणाः । 'संखेजमसंखेच' त्ति संख्येययोजनविस्तारा असंख्येययोजनविस्ताराश्च भणिताः पुप्पावकीर्णास्तु ॥ २६२ ॥
SR No.002260
Book TitleDevendra Narkendra Prakaranam
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherJinshasan Aradhana Trust
Publication Year1989
Total Pages196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy