________________
(११२) मुनिचन्द्रसूरिविरचितवृत्तिसमेत
अउणावीससमहियं, उडूविमाणं तु होइ तिरियायो ।
सो उ निसेसो भणियो, संखेजइभाग सेढीए ॥२५७॥ . : अउणावीससमहियं 'ति एकोनविंशति तम]भागे समधिके उडुविमानं 'तुः' पूरणे भवति ‘तिरियाओ' ति तिर्यग्लोकात् । यच्च "सोहम्मम्मि दिवढा" इति वचनात् तिर्यग्लोकमपेक्ष्य सौधर्मदेवलोकः साईरज्जुप्रमाणे क्षेत्रे प्रतिपाद्यते तत्सौधर्मपर्यन्तप्रस्तटगतविमानाप्रभागापेक्षयेति समवसेयम् । ‘स तु' पुनरूललोकक्षेत्रापेक्षया समधिकैकोनविंशतितमलक्षणः 'विशेषः' भागः ‘भणितः' उक्तः, कीदृशः ? इत्याह-'संख्येयभागः , संख्येयतमोऽशः ‘श्रेणेः' : धनीकृतलोकाकाशप्रदेशपतिरूपाया इति ॥ २५७ ॥ अथ पूर्वोक्तमेवार्थ स्वयमेव सूत्रकारः किञ्चिद् व्याचिख्यासुराह
उडलोबो एगणवीसखंडीको तो तस्स ।
एगणवीसभागम्मि समहिए ऊ उडुविमाणं ॥ २५८ ॥ .. उर्ध्वलोक एकोनविंशतिखण्डीकृतस्ततस्तस्य संबन्धिन्येकोनविंशभागे समधिके 'तुः प्राग्वदू, दीर्घत्वं च प्राकृतत्वात् , उडुविमानं वर्तते तिर्यग्लोकादिति ॥२५८॥ उक्तमनुक्तं चार्थमेकवाक्यतयैव संगृहन्नाह
आवलियविमाणाणं, तु अंतरं णियमसो असंखेनं । संखेजमसंखेनं, भणियं पुप्फावकिरणाणं ॥२५६ ॥
आवलिकाविमानानां 'तुः' पूरणार्थः ' अन्तरं' परस्परमन्तरालं तिर्यक्षेत्रापेक्षया 'नियमतः' नियमेनासंख्येययोजनप्रमाणम्, “जे केई" ( गा० २५५ ) इत्यादि प्रागुक्तगाथोक्तलोकसंख्येयविभागस्यासंख्येययोजनप्रमाणत्वात् । तथा संख्येयमसंख्येयं भणितमन्तरं पुप्पावकी