________________
देवेन्द्रप्रकरणम्। (५) ये ' यावन्तः ' त्रयोदशादिलक्षणाः 'तुः ' पुनरर्थः ‘कल्पे' सौधर्मेशानादिलक्षणे ' प्रस्ताराः ' प्रस्तटाः ' तावन्तस्तु ' तावन्त एव 'मज्झिल्ल ' ति मध्यमा विमानेन्द्रकाः ' उपरिमराशौ' वृत्तविमानलक्षणे एते प्रक्षेप्तव्याः । अत्र हेतुमाह-'यतः' यस्मात्कारणाद् वृत्तास्ते, उपरितनराशिश्च वृत्तसंबन्धी इति तेषां तत्र निक्षेप इति ॥ १९६ ॥
अस्य गाथाष्टकम्य भावना नरकेन्द्रककृतभावनानुसारेण स्वयमेवेहावतारणीया । नवरं सुखावबोधार्थ पर्यन्तप्रस्तटभावनोच्यते-तत्र सर्वार्थसिद्धप्रस्तटे एकस्यां दिश्येकस्यैव विमानस्य सद्भावात्तदेव मुखं तत्र भूमिः, ततो मुखभूभ्योः समासाः जात एकः, स च स्वकपतरेगैकलक्षणेन गुण्यते " एगगुणं तत्तियं चेव " त्ति वचनात्संनात एक एव, तस्माच्चैकलक्षणे शोधनके शोधिते स्थितं शून्यम् , तच्च वृत्तत्र्यसचतुरस्रलक्षणेषु त्रिषु स्थानेषु स्थाप्यते, ततः शोधनकस्याप्येकरूपस्य त्रिभिर्भागो दीयते, भागाभावालब्धं शून्यमवशिष्टश्चैककः , तच्च शून्य त्रिषु स्थानेषु स्थाप्यते तत्र द्वे शून्ये त्र्यससंज्ञिते शून्य शौ क्षिप्येते, [एकं च चतुरस्रसंज्ञिते,] ततो “राशिरविकृतः खयोजनापगमे " इति. वचनात् उभयत्रापि स्थितं शून्यमेव, यश्चैककोऽवशिष्ट आसीत्स त्र्यत्र- शून्ये क्षिप्यते लब्धमेकं त्र्यस्रविमानम् , एतदेव च तत्रैकदिग्गतविमानप्रमाणम् , दिक्प्रतिबद्धवृत्तचतुरस्रयोश्च तत्राभावः । यदा त्वेतदेव चतुर्भिर्गुण्यते मध्यवर्ती च वृत्तेन्द्रको मध्ये क्षिप्यते तदा पञ्चकलक्षणं पर्यन्तप्रस्तटे विमानाग्रं भवतीति ॥ संप्रत्यनेन करणेन यत्र कल्पे यद वृत्तादिप्रमाणमायातं तत्तत्र साक्षादेव दर्शयितुं सूत्रकारो गाथादशकमाह