________________
(८८) मुनिधन्द्रहरिविरचितवृत्तिसमेत गश्चतुरसे विमानराशावेव प्रक्षेप इति ॥ १९३ ॥ यदा शोधनकस्म त्रिभिर्भक्तस्य किश्चिदवशिष्यते तदा यत्कर्त्तव्यं तदाहसोहणदोव्वरिया, तत्थेगो तंसे (सि) एगो (ग) चउरंसे । एगुब्बरियं तंसे, एगा बाहा हवइ एसा ॥ १६४ ॥
यदा शोधनकस्य-चतुर्दशादिलक्षणस्य त्रिभिर्भक्तस्य द्वावुद्वरिती. भवतस्तदा 'तत्र ' तयोरेकरुयने एकश्चतुरसे न्यसनीयः । यदा पुनः . एक-एककलक्षणमङ्कस्थानमुद्वरति लान्तकस्य सहस्रारस्य वा देवलोकस्य : संबन्धिनि चतुष्टयलक्षणे शोधनके तदैकमुद्दरितं त्र्यसराशौ न्यसेत् । एवं च कृते ' एका ' पूर्वादिदिग्गता ''बाहा' सौधर्मेशानादिकल्प- : गतवृत्तत्र्यनचतुरस्रविमानप्रमाणलक्षणा श्रेणिर्भवति । एषा' अनन्तरोक्तेति ॥ १९४ ॥ पूर्वोक्तमर्थ निगमयन् सर्वदिग्गतवृत्तादिविमानप्रमाणानयनायाह
एवं एगदिसम्म, चउसंगुणियं तु होइ सव्वगं । वलए वलए एवं, वट्टा तंसा य चउरंसा ॥ १६५ ॥
'एतत् ' अनन्तरोक्तं ' एकदिगग्रं' एकस्यां दिशि वृत्तादिपरिमाणम् , चतुःसंगुणितं 'तुः ' पुनरर्थे भवति सर्वाग्रमिति । एवं सति यत्सिद्धं तदाह-'वलये वलये' सौधर्मेशानकल्पद्वयादिलक्षणे ‘एवं' उक्तनीत्या वृत्तारूयस्राश्चकारस्य भिन्नक्रमत्वाच्चतुरस्राश्च गणनाप्रमाणतो विज्ञातव्या भवन्तीति ॥ १९५ ॥ ये चात्रावलिकामध्यगता विमानेन्द्रकास्तेषां यद्विधेयं तदाह
जे जत्तिया उ कप्पे, पत्थारा तत्तिया उ मज्झिल्ला । उवरिमरासीएते, पक्खेय वा सो वट्टा ।। १६६ ।।