________________
श्रुतिपरीक्षा
५०३ रहितमित्यस्य हेतो सिद्धिः । नापि विरुद्धता; सपक्षे भावात्। विपक्षे चाभावान्नाप्यनैकान्तिकत्वमिति सिद्धं वेदस्य प्रामाण्यम्॥
साम्प्रतं परप्रयुक्तस्य वेदाप्रामाण्यसाधनद्वयस्य विस्तरेण दूषणमारभते। तत्रेदं साधनद्वयम्-यदैन्द्रियकं प्रयत्नानन्तरीयकं च, तदनित्यम्; यथा घटः, तथा च शब्द:-इति स्वभावहेतुसामान्येन शब्दस्यानित्यत्वे सिद्धे वेदस्याप्यनित्यत्वसिद्ध्या सामर्थ्यादस्याः पुरुषवाक्यवन्मिथ्यात्वं सेत्स्यतीति [G.589] परस्य बौद्धादेरभिप्रायः । अत्र शाब्दादिप्रमाणैः प्रतिज्ञाबाधां विस्तरेण प्रतिपादयति । तत्र शाब्दप्रमाणबाधां तावदाह
वेदवाक्यार्थमिथ्यात्वं यो वदत्यनुमानतः।
तस्य वैदिकविज्ञानबलात् पक्षो निवर्त्तते ॥२१०५॥ वेदादागतं वैदिकम्-अग्निहोत्रात् स्वर्गो भवतीत्यादि। तद्बलात् पक्षो निवर्तते; तेन बाध्यमानत्वात्। यथोक्तम्-"न चास्य चोदना स्याद्वा नवेति संशयितं प्रत्ययमुत्पादयति, न च विपरीतमिथ्यैतदिति' कालान्तरे पुरुषान्तरे देशान्तरेऽवस्थान्तरे वा पुनरव्यपदेश्यप्रत्ययो भवति । योऽप्यन्यप्रत्ययविपर्यासं दृष्ट्वाऽत्रापि विपर्ययः सिध्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण विरुध्यमानो बांध्यते" (मी० द०, शा० भा० १.१.५) इति ॥ २१०५ ॥
ननु च तुल्यबलयोः कथमेकेनेतरस्य बाधा? अथ तुल्यबलत्वेऽपि बाधा, अनुमानेन तर्हि तस्य किं न बाधा स्यात् ? इत्याह
तच्च प्रत्यक्षतुल्यत्वाद् वैदिकं बलवत्तरम्।
न शक्यमनुमानेन कथञ्चिदपि बाधितुम् ॥२१०६॥ अनुमानं कथं तर्हि तेन बाध्यते? इत्याह.. प्रत्यक्षपक्षनिक्षिप्तं शास्त्रमेव यतः स्थितम्।
.बलवत्तरमित्येतदनुमानस्य बाधकम् ॥२१०७॥ यथोक्तम्-"प्रत्यक्षस्तु वेदवचनप्रत्ययः, न चानुमानं प्रत्यक्षविरोधि प्रमाणं भवति" इति ॥ २१०७॥ . कथमनुमानादागमस्य बलीयस्त्वं येन प्रत्यक्षतुल्यत्वं तस्य? इत्याह
दृष्टान्तमिरपेक्षत्वाद् दोषाभावाच्च लाघवम्। . आगमस्य प्रमाणत्वे नानुमानस्य तादृशम् ॥२१०८॥
तेनागमानुमानाभ्यां यत्रार्थे संशयो भवेत्।
तत्रागमबलीयस्त्वात् कार्यस्तेनैव निर्णयः ॥ २१०९॥ प्रमाणत्व इति लाघवापेक्षा विषयसप्तमी। नानुमानस्य तादृशामिति । तस्य दृष्टान्तापेक्षत्वाद्, दोषसद्भावाच्च । दोषस्तु प्रत्यक्षतुल्येन वैदिकेन ज्ञानेन बाध्यमानत्वात् ॥ २१०८-२१०९ ॥ [G.590] ननु च यदेवोभयसिद्धं तदेव दूषणं भवति, न च बौद्धस्यागमः प्रमाणम्; 'द्वे एव प्रमाणे' इत्यवधारणात्, तत् कथमसिद्धनागमप्रमाण्येन बाधा क्रियते बौद्धं प्रति? इत्याशङ्कयाह१. मिथ्यैतदिति-पा०, गा०॥
२. न प्रमाणं-जै०।