________________
५०२
तत्त्वसंग्रहे साध्यं हेत्वन्तरेणैव परमाणुकृतं जगत्॥२०९८॥ वैशेषिकेण यद्यपि 'साङ्योपन्यस्तप्रधानकारणं जगत्साधनं निराकृतम्, तथापि हेत्वन्तरेणैव परमाणुकृतं जगत् साधनीयम्, इहाप्येवं भविष्यतीति चेत् ? इत्याह
भावपक्षप्रसिद्धयर्थमुच्यते यत्तु साधनम्।
तस्मिन् निराकृते सम्यगभावः सिध्यति स्वयम्॥२०९९॥ भावपक्ष:=पौरुषेयता,तन्निवृत्तिः अभावपक्षः। अन्योऽन्यपरिहारस्थितलक्षणयोश्चैकप्रतिषेधस्यापरविधिनान्तरीयकत्वादित्यभावः स्वयं सिध्यतीति भावः ॥ २०९९ ॥
यत् पूर्वापरयोः कोट्योः परैः साधनमुच्यते।
तन्निराकरणं कृत्वा कृतार्था वेदवादिनः ॥२१००॥ तथा हि-वेदस्य पूर्वापरयोः कोट्योरुत्पादविनाशलक्षणयोः सिद्धये यद् बौद्धैः साधनमुच्यते, तन्निराकरणमात्रेणैव वेदापौरुषेयत्वस्य कोटिद्वयशून्यतालक्षणस्य सिद्धाविष्टसिद्ध्या कृतार्था वेदवादिनः ॥ २१०० ॥
ननु निराकृतेऽपि तत्साधने वेदस्य नित्यत्वं विधिरूपं यत्नान्तरेण साधनीयम्, [G.588] तत् कथमसाधयन्तो वेदस्य कृतार्था भवेयुर्वेदविदः? इत्याह
नित्यत्वं वस्तुरूपं यत् तदसाधयतामपि।
स्वयं भवति तत्सिद्धिः पूर्वपक्षद्वये हते॥२१०१॥ पूर्वपक्षद्वयम्=पूर्वापरयो: कोट्योः साधनम् ॥ २१०१॥ यथा पूर्वपक्षद्वये हते नित्यत्वस्य स्वयं सिद्धिर्भवति, तद्दर्शयति
पूर्वा वेदस्य या कोटि: पौरुषेयत्वलक्षणा।
परा विनाशरूपा च तदभावो हि नित्यता॥२१०२॥ पूर्वापरकोटिद्वयपरिहारस्थितलक्षणत्वान्नित्यत्वस्य, परस्परपरिहारस्थितलक्षणयोश्चैकनिराकरणस्यापरसद्भावनान्तरीयकत्वादित्युक्तम् ॥ २१०२॥ यद्येवम्, यदि तदभावो नित्यता, न तर्हि वस्तुधर्मो नित्यता प्राप्नोति? इत्याह
यन्नादौ क्रियते वेदः पश्चान्नैव विनश्यति। तदेव तस्य नित्यत्वं ज्ञेयं तदपि चेन्मतम्॥२१०३॥ अकृतत्वाविनाशाभ्यां नित्यत्वं हि विवक्षितम्।
तौ चाभावात्मकत्वेन नापेक्षते स्वसाधनम्॥२१०४॥ अनेन वस्तुभूतस्य वेदस्यात्मगत एवासौ धर्म इति प्रतिपादयति। यद्येवम्, वस्तुभूतत्वात् साध्यं तर्हि नित्यत्वं प्राप्तमिति परवचनावकाशमाशङ्कते-ज्ञेयमित्यादि। ज्ञेयम्=प्रमाणेन ज्ञातव्यम्, साध्यमिति यावत्। तौ चेति । अकृतत्वाविनाशौ। स्वरूपस्य साधनं स्वसाधनम्। अभावस्यापि वस्तुत्वाविरोधात् सत्यप्यकृताविनाशित्वलक्षणत्वे नित्यत्वस्य नावस्तुत्वमिति भावः ॥ २१०३-२१०४॥
एवं तावत् प्रमाणपञ्चकनिवृत्त्या वेदे कर्तुरभावसिद्ध्या यन्मिथ्यात्वहेतुदोषसंसर्ग१-१. कारणजगत्-पा०, गा०।
२. अत्राह-पा०, गा०।।