________________
श्रुतिपरीक्षा
वेदकारसदृक् कश्चिद् यदि दृश्येत सम्प्रति । ततस्तेनोपमानेन कर्तुरप्युपमा भवेत् ॥ २०९१ ॥ अर्थापत्तेरभावमाह -
वेदकारादृते किञ्चिन्न सिध्येत् प्रमितं यदि । अर्थापत्त्या प्रतीयेत वेदकारस्ततो ध्रुवम् ॥ २०९२ ॥ ननु तेन विना किञ्चिद् वेदे यन्नोपपद्यते । अस्मिन् सति हि बह्वेव प्रामाण्यादि न सिध्यति ॥ २०९३ ॥ पञ्चभिरंगम्यत्वादभावेनैव गम्यते । तेन दुर्लभभावोऽसौ प्रमाणाभावबाधनात् ॥ २०९४॥ प्रमितमिति प्रमिति:= प्रमाणषट्कपरिच्छिन्नम्। तेन विनेति कर्त्रा । अस्मिन्निति कर्त्तरि । प्रामाण्यादीत्यादिशब्देन धर्मादिव्यवस्था ।
स
अभावेनैवेति । अभावेंन प्रमाणेन नास्तीत्येवं गम्यते; तस्य प्रतिषेधविषयत्वात् । अथ वा-अभावेन रूपेण नास्तीत्येवं गम्यत इति यावत्; प्रमाणाभावात् । प्रमाणाभावबाधनादिति। प्रमाणानामभावः - निवृत्तिः, अभावप्रमाणमिति यावत्, तेन बाधनात्। नास्ति वेदस्य कर्तेति सिद्धम् ॥ २०८७-२०९४॥
स्यादेतत्-यदि वेदस्यापौरुषेयत्वमेवं प्रसाध्य प्रामाण्यं प्रसाध्यते, हन्त तर्हि परतः प्रामाण्यं प्रयुक्तं वेदस्य! तथा हि-न तावद् वेदस्य प्रामाण्यं प्रतीयते यावदपौरुषेयता न साध्यते ? इत्याशङ्कयाह
अप्रामाण्यनिवृत्त्यर्था
वेदस्यापौरुषेयता । येष्टा साऽपि त्ववस्तुत्वात् साधनीया न साधनैः ॥ २०९५ ॥
अनेनैतदाह — न ह्यस्माभिरसिद्धं प्रामाण्यं विधिरूपेण प्रसाध्यते, किं तर्हि ? [G.587] परेण यदप्रामाण्यमासंक्तं तन्निवृत्तिः क्रियते । अपवादे च निरस्ते स्वयमेवोत्सर्गोऽनपोदितः सिद्धोऽवतिष्ठते । नाप्यपौरुषेयत्वं प्रसाध्यते; यतस्तत्साधनद्वारेण सामर्थ्यात् परतः प्रामाण्यप्रसङ्गः स्यात् ! किं तर्हि ? तस्यापौरुषेयतानिवृत्तिमात्रलक्षणत्वेनावस्तुत्वात् ॥ २०९५ ॥
यदि न साध्यते, कथं तर्हि स्वयं सिध्यति ? इत्याह
५०१
· यन्नाम तार्किको ब्रूयात् पौरुषेयत्वसाधनम् ।
तन्निराकरणात् सिद्धा वेदस्यापौरुषेयता ॥ २०९६॥
ननु निराकृतेऽपि परपक्षे स्वपक्षमसाधयतः प्रमाणेन कथं तत्सिद्धिः, येन कृतार्था वेदवदिनो भवन्ति ? इत्याह
वस्तुभूतौ हि यौ पक्षौ प्रधानपरमाणुवत् ।
तयोरन्यतरासिद्ध्या नेतरः सिध्यति स्वयम् ॥ २०९७ ॥
"
'प्रधानपरमाणुवत्" (तत्त्व० २०९७) इत्येतद्व्याचष्टे - प्रधानकारणत्वस्य निराकृत्यापि साधनम् ।
-
१. जै० पुस्तके नास्ति ।