________________
५००
तत्त्वसंग्रहे नाप्यसिद्धतेति प्रतिपादयन्नाह
दोषाः सन्ति न सन्तीति पुंवाच्येव हि शङ्कयते।
श्रुतौ कर्तुरभावात् तु दोषाशझैव नास्ति नः ॥२०८६॥ दोषा हि पुरुषाश्रिताः; तद्धर्मत्वात्, तत्कथं ते स्वाश्रयमन्तरेण भवेयुः। सम्भवे वाऽनाश्रितत्वप्रसङ्गात्। एष ह्याश्रितधर्मो यदाश्रयानुविधायित्वम् । दोषाश्रयश्च पुरुषः कर्ता, स च निवृत्तो वेद इति कुतो दोषाशङ्का । एतेनेष्टा सन्दिग्धासिद्धतापि स्यात् ॥ २०८६ ॥
स्यादेतत्-दोषाश्रयस्य कर्तुरभावोऽपि कथ सिद्ध इति? अतस्तदभावं तद्ग्राहकप्रमाणपञ्चकनिवृत्त्या प्रतिपादयति
कर्ता तावददृष्टः स कदाप्यासीदितीष्यते। [G.586] न तावत् प्रत्यक्षतः कर्ता वेदस्य सिद्धः। तथा हि-अयमसाविति न शक्यते शृङ्गग्राहिकया प्रतिपादयितुम् इदानीमनुपलभ्यमानत्वात्। आसीत्कर्तेत्येवं तु कल्पनीयम्, स चादृष्टः सन् कदाप्यासीदितीष्यते यत्तदप्रमाणकमिति शेषः। .. नाप्यनुमानतः सिद्ध इत्याह
अदृष्टपूर्वसम्बन्धः सम्प्रत्यज्ञानहेतुकः॥ २०८७॥
अनुमामविहीनोऽपि सोऽस्तीति परिकल्प्यते। । अदृष्टपूर्वेण का सम्बन्धो जन्यजनकभावलक्षणो यः क्रियते सम्प्रति वेदस्य वेदनिन्दकैः, सोऽज्ञानहेतुकः; ज्ञापकप्रमाणाभावात्। न ह्यदृष्टेन वह्निना सह कश्चिद् धूमस्य सम्बन्धं ग्रहीतुं प्रभुः । तस्मादनुमानविहीनोऽपि स कर्ता कल्प्यते । अपिशब्दान्न केवलं प्रत्यक्षविहीनः । शाब्दप्रमाणनिवृत्तिमाह
आगमोऽपि न तत्सिद्धयै कृतकाकृतकोऽस्ति न॥२०८८ ॥
स्वयमेवाप्रमाणत्वात् कृतकोऽस्य न बोधकः। वेदस्य व्यतिरेकेणाकृतकस्याभावान्न तावदकृतकोऽपि । नापि कृतकः; तस्य स्वयमेवाप्रमाणत्वात्। तथा हि-कृतको भवन्नागमो वेदसम्बद्धमनुप्रभृतिपुरुषकर्तृको वा भवेत्, तदसम्बद्ध शाक्यमुनिप्रभृतिप्रणीतो वा? प्रथमपक्षमधिकृत्याह
मन्वादिवचनस्यापि तत्कृतैव हि सत्यता ॥२०८९॥ असम्बद्धस्तु विद्विष्टः सत्यवादी कथं भवेत्! .
अतोऽन्यकर्तृकोऽप्यस्ति वेदकारागमो न नः ॥२०९०॥ तत्कृतैवेति वेदकृतैव। अनेन स्वतः प्रामाण्याभावमाह। द्वितीये पक्षे दोषमाहअसम्बद्धस्त्विति। असम्बद्धो वेदेन; तत्रानधिकृतत्वात् । अन्यकर्तृक इति असम्बद्धपुरुषकर्तृकः । वेदकारागमः वेदकारप्रतिपादकः ॥ २०८९-२०९० ॥
उपमानाभावमाह१. पुंवाच्येषु-पा०. गा०। २-२. ०रभावानु-पा०, गा०। ३. ये नष्टा:-पा०; एतेन नष्टा:- गा० । ४. पा०, गा० पुस्तकयो स्ति। ५. ०दकृतक:-पा०, गा०। ६. पा०, गा० पुस्तयो स्ति। ७. सम्बद्धसाध्या-पागा०। ८. तेन कृतौ वेति-जै०। .