________________
श्रुतिपरीक्षा
४९९ नाप्यनुमानं धर्माधर्माधिगमाय युक्तम्; प्रतीतसम्बन्धस्यैव वस्तुनस्तेन परिच्छेदात् । धर्मस्य चातथाभूतत्वात्। ..
नाप्युपमानं समर्थं धर्मप्रत्यायने; तथा हि-उपमानं सादृश्यमसन्निकृष्टे [G.584] बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य। न च धर्मेण सदृशः कश्चित् प्रतीतः सम्भवति, यत्सादृश्यात् तस्यावकल्पना भवेत्।
नाप्यर्थापत्तिः क्षमा धर्माधर्मावबोधने । तथा हि-दृष्टः श्रुतो वाऽर्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पनाऽर्थापत्तिः । न च धर्मेण विना कश्चिदर्थो नोपपद्यते; यतोऽस्य कल्पना भविष्यति। ___ अभावोऽपि प्रमाणाभावो नास्ति' इत्यस्यार्थस्य प्रसिद्धये प्रभवति, न विधौ । तस्मादभाववक्त्रस्थौ धर्माधर्मों यदि चोदना न शक्नुयादुद्धर्तुम्, तेनैव ग्रस्तौ स्यातामिति चोदनालक्षणोऽर्थो धर्मादिर्नेन्द्रियादिलक्षणः । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवञ्जातीयकमर्थं शक्तोऽभ्यवगमयितुम्, नान्यत् किञ्चनेन्द्रियम्।अतोऽवश्यं चोदना प्रमाणयितव्या। 'चोदना' इति च क्रियायाः प्रवर्तकं निवर्तकं च वाक्यमाहुः । तथा"स्वर्गकामोऽग्निष्टोमेन यजेत" ( ) इति प्रवर्तकम्, "न हिंस्याद् भूतानि" ( ) इति निवर्तकम्। तस्याश्च प्रामाण्योपायं भवतां विज्ञप्तिमात्रं त्रैधातुकमिति प्रतिज्ञार्थः, स न युज्यते। कुतः? श्रुतिबाधनात् श्रुत्या वेदेन बाधनात्। चित्तव्यतिरिक्ताग्निहोत्रादिप्रकाशनात्, स्वयं च चित्तव्यतिरेकेणावस्थानात्। चित्तमात्रनयों इत्युपलक्षणम्। तथा क्षणिकत्वनैरात्म्यसर्वज्ञवैराग्यादिप्रतिज्ञापि बाध्यत एव; तद्विरुद्धार्थपरिदीपनेनावस्थानात्॥ २०८४॥ स्यादेतत्-बाध्येत सर्वमेतत्, यदि तस्यां प्रामाण्यं सिद्धं भवति? इत्याह- सा हि प्रमाणं सर्वेषां नराकृततया स्थिता।
वैतथ्यं प्रतिपद्यन्ते पौरुषेय्यो गिरो यतः॥२०८५॥ अवितथं ज्ञानं प्रमाणम्, तद्धेतुत्वात् सापि प्रमाणमुच्यते। कथम्? इत्याहनराकृततयेति। अपौरुषेयत्वात्। अनेनावितथज्ञानहेतुत्वं वैतथ्यकारणरागादिदोषगणाभावेन प्रतिपादयति । प्रयोग:-यन्मिथ्यात्वहेतुदोषसंसर्गरहितं तदवितथज्ञानकारणम्, यथा तिमिरादिदोषानुपप्लुतं चक्षुः, मिथ्यात्वहेतुरागादिदोषसंसर्गरहितश्चापौरुषेयत्वाद्वेद इति स्वभावहेतुः । वैधHदृष्टान्तेनानैकान्तिकतां परिहरन्नाह-वैतथ्यमिति। अनेन हि साधनाभावेन साध्याभावस्य व्याप्तिमादर्शयति । तथा हि-दोषा मिथ्यात्वहेतवः यत्रैव सनिदधति तत्रैव स्वकार्यमिथ्यात्वमुपस्थापयन्ति, नान्यत्र; कारणमन्तरेण कार्यस्यासम्भवात्। सम्भवे वाऽहेतुकत्वप्रसङ्गात्। नापि तमन्तरेण भवतस्तत्कार्यत्वं युक्तम्; अतिप्रसङ्गादित्यतो मिथ्यात्वदोषयो:कार्यकारणभावानुपपत्तिरहेतुकत्वप्रसङ्गश्च [G.585] मिथ्यात्वस्येति विपर्यये बाधकं प्रमाणमिति नानैकान्तिकता। प्रयोगः-यत्र हि यत्कारणं नास्ति तत्तत्र न भवति, यथा अयस्यविद्यमानकारणो धूमः । नास्ति च वैतथ्यहेतुमोहादिदोषगणः श्रुताविति कारणानुपलब्धिः ॥२०८५॥ १. प्रमाण्ये योपायं-पा०, गा०।
२. चित्तमात्रतयेति-पा०, गा० । ३ पयस्यवि०-मा०।