________________
२४. श्रुतिपरीक्षा
अन्ये पनरिहाज्ञानमलीमसधियो जगुः।
चित्तमात्रनयो' नायं युज्यते श्रुतिबाधनात् ॥२०८४॥ [G.583] "स्वतन्त्रश्रुतिनि:सङ्गः" (तत्त्व०५) इत्येतत्समर्थनार्थमाह-अन्यइत्यादि। अन्य इति जैमिनीयाः। त एवमाहुः-"चोदनैव धर्माधर्मादिव्यवस्थानिबन्धनमालोकभूता सर्वप्राणभृतां साधारणं चक्षुरिव व्यवस्थिता। अवश्यं सैव धर्मार्थिभिः पुरुषैः प्रेक्षावद्भिः प्रमाणत्वेनाश्रयणीया, नान्यत्पुरुषप्रणीतवचनादिकम् । तथा हि-पुरुषस्य रागादिभिरविद्यया च परीतचेतसो वचनं नालमतीन्द्रियमर्थमविपरीतमवगमयितुम्। अतस्तद्वचनसमधिगम्यो न धर्मादिः । नाप्यर्वाग्दर्शिनः प्रत्यक्षसमधिगम्यः; तस्यातीन्द्रियत्वेनात्यन्तपरोक्षत्वात् । तथा हिइष्टानिष्टार्थसाधनयोग्यतालक्षणौ धर्माधर्मों। यथोक्तं शाबरे भाष्ये-“य एव श्रेयस्कर: स एव धर्मशब्देनोच्यते। कथमवगम्यते? यो हि यागमनुतिष्ठति तं जनाः 'धार्मिकः' इति समाचक्षते । यश्च यस्य कर्ता स तेनाख्यायते, यथा-पाचकः, लावक इति। तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स एव धर्मशब्देनोच्यते" (मी० द०,शा० भा० १.१.२) इति । तदनेन द्रव्यादीनामिष्टार्थसाधनयोग्यता धर्म इति प्रतिपादितं भवति। तथा हिं-यागशब्देन द्रव्यगुणकर्माणि श्रेयसः साधनानि विशिष्टान्युच्यन्ते । तत्र च धर्मशब्दप्रवृत्तिर्दर्शिता । यद्यपि तानि द्रव्यादीनि प्रत्यक्षाणि स्वरूपतः, न च श्रेय:साधनत्वेन, ताद्रूप्येण च तेषां धर्मत्वमिष्यते, न स्वरूपमात्रेण। यथोक्तम्
"श्रेयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः। चोदनालक्षणैः साध्या तस्मादेष्वेव धर्मता ॥
(ो० वा०, चो० सू० १९१) एषामैन्द्रियकत्वेऽपि न ताद्रूप्येण धर्मता। श्रेयःसाधनता ह्येषां नित्यं वेदात् प्रतीयते॥ ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः॥"
(श्रो० वा०, चो० सू० १३,१४) इति। ताद्रप्येण चेति श्रेय:साधनरूपेण। तस्माद्योग्यता धर्म इति स्थितम् । धर्मवैपरीत्येनाधर्मोऽपि सामर्थ्यादनिष्टार्थसाधनयोग्यतेति स्पष्टमवसीयते। न च योग्यतामग्दिर्शनः । प्रत्यक्षीकर्तुमीश:२; तस्याः सदैव कार्यानुमेयत्वात्। यदाह"शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः।"
(श्वो० वा० चो० सू० २००) इति। अन्यथा ह्यग्दिर्शनत्वमेव हीयेत।
नापि योगिप्रत्यक्षमतीन्द्रियविषयम्; प्रत्यक्षत्वात्, ईतरप्रत्यक्षवत्। १. रित्तमात्रतया-पा०, गा०।
२. ०कर्तुमीशा:-जै०। । ३. 'भावशब्देविशेषतः' इति तत्रस्थः पाठः।