________________
बहिरर्थपरीक्षा
४९७ पूर्वमेव हि-“अनि सं सनिर्भासं" (तत्त्व० १९९८) इत्यादिना व्याप्तेः प्रसाधितत्वात् नानैकान्तिको हेतुः । आचार्यदिग्नागपादैरालम्बनप्रत्ययव्यवस्थार्थमुक्तम्
"यदन्तर्जेरूपं तु बहिर्वदवभासते।
सोऽर्थो विज्ञानरूपत्वात् तत्प्रत्ययतयाऽपि च ॥" ( )इति । __ अनेन हि ग्राह्यांशे विषयव्यवस्था प्रतिपादिता। पुनरप्युक्तम्-"अथ वा शक्त्यर्पणात् क्रमेणापि सोऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानाचारां करोतीत्यविरोधः" ( ) इति । अनेनानन्तरज्ञाने स्वानुरूपकार्योत्पत्तिनिमित्तशक्तिसमर्पणात् कारणत्वं तस्य प्रतिभासस्य समर्थितम्। . अत्र तेनैव भदन्तेन दूषणमुक्तम्
"यद्यपीन्द्रियविज्ञप्तेाह्यांशः करणं भवेत्। .
अतदाभतया तस्या नाक्षवद्विषयः स तु॥" ( )इत्यादिना ॥ २०८१ ॥ अत्राह
शक्तावनन्तरे ज्ञाने ग्राहयांशे विषयस्थितिः। तात्त्विकी नेष्यतेऽस्माभिस्तेन मानं समर्थ्यते ॥ २०८२॥ विज्ञप्तिमात्रतासिद्धिर्थीमद्भिर्विमलीकृता ।
अस्माभिस्तद्दिशा यातं परमार्थविनिश्चये ॥२०८३ ॥ शक्तावनन्तरे ज्ञान इति व्यधिकरणसप्तम्यौ। अनन्तरे ज्ञान इति। समनन्तरप्रत्यये आलयाख्ये या शक्तिस्तथाविधार्थप्रतिभासप्रत्ययसमर्खिता।
तात्त्विकी नेष्यत इति। यतः परमाण्वादेर्व्यतिरिक्तस्यालम्बनत्वं न युज्यत इति विस्तरेण प्रतिपाद्या चार्येग-"मा भूत् सर्वथाऽलम्बनप्रतिषेधे प्रतीतिबाधा, तथाआलम्बनाधिपतिसमनन्तरहेतुप्रत्ययत्वलक्षणाश्चतस्रः प्रत्ययिता इति सूत्रे वचनादभ्युपेतबाधापि" ( ) इति अविरोधप्रतिपादानाय यथाविध आलम्बप्रत्ययोऽभिप्रेतः सूत्रे, लोके च तथा प्रतिपादितं संवृत्त्या, न परमार्थतः परमार्थतस्तु निरालम्बनाः सर्व एव प्रत्यया इति ॥ २०८२-२०८३॥
इति बहिरर्थपरीक्षा॥
१. चालं-जै०। ३. प्रतिपादितं चाचार्येण-गा०।
२. प्रतिपादितम्-गा०1 ४. प्रत्ययस्वस्वल०-गा०।