________________
तत्त्वसंग्रहे
एवं यद्यज्ज्ञानमित्यादौ मौले प्रयोगे हेतोः साध्येन व्याप्तिं प्रसाध्योपसंहरतिविवादास्पदमारूढं विज्ञानत्वादतो मतः ।
अद्वयं वेद्यकर्तृत्ववियोगात् प्रतिबिम्बवत् ॥ २०७८ ॥
[G.581] विवादास्पदविशेषणेनैतदाह - स्वस्थनेत्रादिविज्ञानमत्र विशेष: सांध्यधर्मी; न सर्वः सामान्यं तु विज्ञानत्वादिति हेतुः; तेन न प्रतिज्ञार्थैकदेशता हेतोरिति । न तु सर्वथाऽभावादित्यर्थः । प्रतिबिम्बवदिति । विषयिणि विषयोपचारात् प्रतिबिम्बिज्ञानं प्रतिबिम्बशब्देनोक्तम् । यद्वा – सप्तम्यन्ताद् वतिः कर्त्तव्य:, तेन ज्ञानमेव सामर्थ्यादाधेयतया लभ्यते । न चासिद्धो हेतुः; भेदान्तरप्रतिक्षेपेण स्वभावस्यैव तथा निर्देशान्न ज्ञातृत्वस्य । नापि विरुद्धः; सपक्षे भावात्॥ २०७८ ॥
ननु चेत्यादिनाऽपरो दृष्टान्तस्य साध्यविकलतामुद्भावयति
ननु च प्रतिबिम्बेऽपि ज्ञानं सालम्बनं मतम् ।
चक्षूरश्मिनिवृत्तौ हि स्वमुखादेस्तथेक्षणात् ॥ २०७९ ॥
यस्मान्नायना रश्मयो दर्पणादितलप्रतिहता निवर्तमानाः स्वमुखादिना सम्बध्यन्ते, ततस्ते तथा मुखादिप्रतीतिहेतवो भवन्ति । अतः स्वमुखादेरेव तथा दर्पणाद्यन्तर्गतादिरूपेणेक्षणं भवति । ततश्च न प्रतिबिम्बज्ञानं ग्राह्यग्राहकद्वयरहितं सिद्धम् ॥ २०७९ ॥
४९६
नाभिमुख्येनेत्यादिना प्रतिविधत्ते
नाभिमुख्येन तद्दृष्टेः स्वमुखादेंस्तथेक्षणम् । प्रमाणदेशभेदादिदृष्टे श्चान्यपदार्थवत्
न स्वमुखादेस्तथेक्षमम्; आभिमुख्येन तस्य स्वमुखादेर्दर्शनात्` । तद्देशप्रमाणवर्णादिभेदेन दृष्टेश्च न स्वमुखादेस्तथेक्षणमिति सम्बन्धः । अन्यपदार्थवदिति । शब्दादिपदार्थवत् । एतदुक्तं भवति – यदि मुखादिग्राहकं तज्ज्ञानं स्यात्, तदा यथैव तन्मुखादि व्यवस्थितं तथैव गृह्णीयात् । न ह्यन्याकारस्य ज्ञानस्यान्यत् ग्राह्यं युक्तम्; अतिप्रसङ्गात् । यावता दक्षिणाभिमुखस्थितो दर्पणतलं निभालयन्नुत्तराभिमुखं स्वमुखं पश्यति । यथाऽल्पीयसि दर्पणतले महतोऽपि स्वमुखस्याल्पप्रतिबिम्बकमुपलभ्यते, तथा दर्पणतलसम्बद्धं दूराधः प्रविष्टमिवेक्ष्यते । न च तावद्बहलं तथाऽऽदर्शतलम्, नापि मुखादि तत्सम्बद्धम् । तथा विमलसलिले सरसि तटान्तस्थितशाखिंशिखरिणां प्रतिबिम्बान्यधोगतशाखादिशिखरशेखराण्युपलभ्यन्ते, न च ते तथा स्थिताः । तस्मात् प्रतिबिम्बज्ञानं न स्वमुखादिग्राहकम्; तद्विलक्षणप्रतिभासित्वाच्छब्दज्ञानवत् ॥ २०८० ॥ [G.582] भदन्तशुभंगुतस्त्वाह
"
तं प्रत्याह
।। २०८० ॥
'धीमात्रत्वेन संसाध्ये यज्ज्ञानत्वादिसाधनम् । विजातीयाविरुद्धत्वात् सर्वं शेषवदुच्यते ॥" (
१. यद्यज्ञान०- पा०, गा० ।
) इति,
विज्ञानत्वं प्रकाशत्वं तच्च ग्राह्ये निरास्पदम् । अनिर्भासाद्ययोगेन व्याप्तिस्तेनास्य निश्चिता ॥ २०८१ ॥
२. स्वसुखादे० - पा०, गा० । ३. पा० पुस्तके नास्ति । ४. पा०, गा० पुस्तकयोर्नास्ति ।