________________
बहिरर्थपरीक्षा
४९५ अतिप्रसङ्गात् ? इत्याह-सर्वत इत्यादि । एतदुक्तं भवति-न तावद् विकल्पस्य यथावस्थितवस्तुग्रहणसामर्थ्यम्; तस्यावस्तुविषयत्वात्। केवलं तथाभूतपदार्थानुभवबलाद् यत्रैवार्थित्वादयो निश्चयहेतवः सन्ति, तत्र तदाकाराध्यवसायी स्मार्त्तः प्रत्ययो निर्विषय एव। परमार्थतः स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवृत्तेर्धान्त एव सर्वो जायते। तस्य त्वध्यवसायवशेन विषयव्यवस्था,न परमार्थतः । न च ग्राह्याध्यवसाय: स्मृतेरपि विद्यते, केवलं तथाविधाभ्यासपाटवादेरप्रत्यासत्तितारतम्यादिकारणाभावादलक्षितविशेषा [G.580] भवति, येन स्मरणान्तराद् विशिष्यते ।। २०७५ ॥ स्यादेतत्-कथमवसीयते ग्राह्यध्यवसायोऽत्रास्ति स्मृतेः? इत्याह
गृहीत इति कोऽप्येवं नान्यथा स्मरणं भवेत्।
शुद्धस्फटिकसंकाशे' वेद्यते स्मरणं न च ॥२०७६ ॥ यदि ह्यनुपलक्षितविशेष ग्राह्यमपि सा स्मृति ध्यवस्येत्, तदा 'कोऽपि गृहीतः' इत्येवमपि सामान्याकारेण ग्राह्यप्रत्यवमर्शने न प्रवर्तेत । न चापि केवलो ग्राह्याकारानङ्कितमूर्त्तितया ग्राहकः शुद्धस्फटिजसंकाशः स्मर्यते। येनोच्यते-"स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम्' इति । तस्मात् तत्स्मरणे तदस्मरणमसिद्धम् ॥ २०७६ ।।
कम्बुपीतादिविज्ञानैर्हेत्वोः पश्चिमयोरपि।
अनैकान्तिकता व्यक्तं दिगेषाऽन्यत्र साधने ॥२०७७॥ . यौ च ज्ञानोत्पत्तेर्ज्ञानत्वादितीमौ पश्चिमौ हेतू,तयोः पीतशङ्कादिज्ञाने न व्यभिचारः, यथा पीतशङ्खादिज्ञानं ज्ञानोत्पन्नमपि सत् स्वांशं पीताद्याकारं गृह्णाति, यथा च ज्ञानमपि सत् ज्ञानांशस्य पीतादेाह्यस्य बोधकं भवति, तथाऽन्यदपीति व्यभिचारिता हेत्वोः । साधितं च पीतशङ्खादिज्ञानस्य निरालम्बनत्वम् । अत एवात्मगतस्य पीताद्याकारस्य वेदनात् स्वसंवेदनं सिद्धमित्येतदपि प्रतिपादितम्। एषा दिगिति। अन्यत्रापि-बहिरर्थसाधने परोपन्यस्ते। एषा=दूषणदिक् । यदुक्तं परेण-कथमद्वयं साध्यत्वेनेष्टम, किं भासमानस्य नीलाद्याकारस्य ज्ञानरूपस्य च अनुभवसिद्धस्याभावात् कथमिदं नाम योज्यते, तथा सति सर्वाभावप्रसङ्गः स्यात् ? अत्र वक्तव्यम्-न सर्वाभावः; यस्मात् स्वव्यतिरिक्तस्य ग्राह्यस्य पृथिव्यादेः स्वलक्षणतोऽसत्त्वात् । सन्तानान्तरस्य तु ग्राह्यरूपेणाभावात् ग्राह्याकारशून्यम्, तदपेक्ष्य प्रकल्पितं तु यद्विज्ञानस्य कर्तृत्वं विजानातीति विज्ञानमिति कृत्वा तस्याभावाद् ग्राहकाकारशून्यम्, न तु विज्ञानस्वलक्षणस्यापि; सर्वस्य सर्वेणाभावात् । तथा चोक्तम्
"नीलपीतादि यज्ज्ञानाद्। बहिर्वदवभासते। अत्र सत्यमतो नास्ति विज्ञेयं तत्त्वतो बहिः॥ तदपेक्षा च संवित्तेर्मता या कर्तृरूपता।
सा न सत्यमतः संविदद्वयेऽपि विभाव्यते"॥ ( ) इति। एवं च कृत्वा, अयमपि प्रज्ञापारमितापाठ: सुनीतो भवति-"विज्ञानं विज्ञानस्वभावेन शून्यं लक्षणशून्यतामुपादाय' ( . ) इति ॥ २०७६-२०७७ ॥ ... संकाशं-पा०, गा० । २-२. पा०, गा० पुस्तकयो स्ति।
३. यज्ज्ञाने-पा०, गा०/