________________
४९४
तत्त्वसंग्रह द्वितीयादयोऽपि हेतवः कथं सिद्धाः ? इत्यत आह
न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति च। स्मरन्ति ग्राहकोत्पादं ग्राह्यरूपविवर्जितम् ॥२०७०॥ तस्मादभिन्नतायां च ग्राह्येऽपि स्मरणं भवेत्। ग्राहकस्मृतिसद्भावे तत्र त्वेवैष गृहयते ॥२०७१॥ अन्वयव्यतिरेकाभ्यां सिद्धैवं भिन्नता तयोः।
(श्रो० वा० शू० ७९, ८३-८५) एवं च हेतवोऽप्येते प्रसिद्धाः साध्यधर्मिणि ॥२०७२॥ . ग्राह्यास्मरणेऽपि ग्राहकस्मृतिर्दृष्टा, यदि च तस्माद् ग्राहकादेकान्तेन ग्राह्यस्याभिन्नता स्यात्, तदा ग्राह्येऽपि स्मरणं भवेत्, ग्राहकवत्। न च भवति, तस्माद् भिन्नयोगक्षेमत्वाद् भिन्नौ ग्राह्यग्राहकौ। स्यादेतद्-भवत्येव ग्राह्येऽपि स्मरणम् ? इत्याह-ग्राहकस्मृतिसद्भाव इत्यादि। तत्रेति ग्राहकस्मृतिसद्भावकाले। एष एव=ग्राहक एव गृह्यते, न ग्राह्यमित्येवकारो [G.579] भिन्नक्रमः । अन्वयव्यतिरेकाभ्यामिति । ग्राह्यग्राहकस्मरणयोर्भावाभावाभ्याम्। तथा हि-ग्राहकस्मरणभावेऽपि ग्राह्यस्मृतेरभावः ॥ २०७०-२०७२॥ . अप्रसिद्धोपलम्भस्येत्यादिना प्रतिविधत्ते
अप्रसिद्धोपलम्भस्य नार्थवित्तिः प्रसिध्यति। तन्न ग्राह्यस्य संवित्तिाहकानुभवादृते॥२०७३॥ अस्वस्थलोचनैर्दृष्टं तथा पीताद्यवेक्ष्यते।
निष्कृष्टं ग्राहकांशाच्च संवेद्यं न तथा परम् ॥२०७४॥ "स बहिर्देशसम्बन्धः प्रत्यक्षमुपलभ्यते" (मी० द०, शा० भा० १.१५) इत्यस्यानैकान्तिकमाह-अस्वस्थेत्यादि। निष्कृष्टमित्यत्र छेदः । तथेति। यथा सत्याभिमतं पीतादि बहिर्देशसम्बद्धं विस्पष्टमुपलभ्यते, तथा कामलाद्युपहतनयनोपलब्धमपि समीक्ष्येत' । यदि नाम समीक्ष्यते, ततः किमित्याह-ग्राहकांशाच्च संवेद्यं नेतिछेदः । ग्राहकांशादिति । निष्कृष्टमित्यध्याहार्यम्। संवेद्यं नेति भवतीति शेषः । तेनायमर्थो भवति–तच्च पीतादि तैमिरिकाधुपलब्धं ग्राहकांशानिष्कृष्टं पृथक्संवेद्यं न भवति, अथ च बहिर्देशसम्बद्धमुपलभ्यते, तस्मादनैकान्तिकमेतत्। तथा परमिति । सत्याभिमतमपि पीतादि। अनेन विच्छिन्नस्पष्टप्रतिभासमात्रेण द्वयोरपि साम्यं योजयति ॥ २०७३-२०७४ ।। "न स्मरामि मया कोऽपि" (तत्त्व० २०७०) इत्यत्राह
अलक्षितविशेषा च बाह्यरूपे च सा स्मृतिः।
सर्वतो भिन्नरूपे तु न साऽभ्यासाद्यसम्भवात्॥२०७५ ॥ अनेन ग्राहकस्मरणे ग्राह्यास्मरणस्यासिद्धिमाह । स्यादेतत्-यदि ग्राह्ये सा स्मृतिः, किमित्यलक्षितविशेषा भवति; यावता यथैव तद्ग्राह्यं सर्वतः सजातीयविजातीयाद्भिनं तथैव तत् स्मरेत्; एवं हि तद्विषयता तस्याः स्यात्, अन्यथा कथमगृह्णती तद्भेदं तरिषया भवेत्, १. समीक्ष्ये-जै०।