________________
४९३
बहिरर्थपरीक्षा ग्राह्यं तद्ग्राहकाच्चैव तत्परामृशता यतः। न परांमृश्यतेऽवश्यं रसादिग्राहकादिवत्॥२०६४॥ द्वयं परस्परेणैव भिन्नं साध्यं रसादिवत्। ऐक्यरूपेण वाऽज्ञानात् सन्तानान्तरबुद्धिवत्॥२०६५॥ ज्ञानं स्वांशं न गृह्णाति ज्ञानोत्पत्तेः स्वशक्तिवत्। ग्राह्यत्वप्रतिषेधश्च द्वयहीना हि वासना॥२०६६॥ चैत्रज्ञानं तदुद्भूतज्ञानांशग्राह्यबोधकम्।
ज्ञानत्वान्न भवेद् यद्वत् तस्य देहान्तरोद्भवम्॥२०६७॥ यदेतद्रूपे ग्राहकं ज्ञानं तत् तस्मात् तद्ग्राह्याद्रूपाद् भिन्नम्; तस्य रूपस्य वित्तौ सत्यां तस्यासंवित्तेः, यथा रसादिग्राहकम्।
यद्वा-ग्राह्यं रूपादि स्वग्राहकाद् भिन्नं तद्ग्राहकं परामृशता यतो यस्मान्न परामृश्यते, यथा रसादिग्राहकात्।
अथ वा-द्वयम् रूपादि, तद्ग्राहकं च परस्परविभिन्नम्; एकतरपरामर्श सत्यपरपरामर्शनात्, रसरूपादिवत् । एखत्वेनापरिज्ञानाद्वा, सन्तानान्तरचित्तवत्।
अथ वा-न स्वांशग्राहकं ज्ञानम्; ज्ञानादुत्पन्नत्वात्। वासनाख्ये च ज्ञानशक्तिः । एवं ज्ञानस्य ग्राह्यत्वप्रतिषेधोऽपि कर्तव्यः, तथा-ज्ञानांशो न ज्ञानग्राह्यः, ज्ञानादुत्पन्नत्वात्। तद्वत् वासनावत् । कथमस्मिन्ननन्नरे [G.578] प्रयोगद्वयेऽपि साध्यधर्मान्वितो दृष्टान्तः सिद्धः इत्याह-द्वयहीना हि वासनेति। द्वयेन ग्राह्यग्राहकत्वेन।
अथ वा अपरः प्रयोगः-न चैतज्ज्ञानं चैत्रज्ञानोद्भूतज्ञानांशस्य बोधकम्; ज्ञानत्वात् । यद्वत् तस्य चैत्रज्ञानोद्भूतज्ञानांशस्य मैत्रादिदेहान्तरोद्भवं ज्ञानम्॥ २०६३-२०६७॥
अपृथग्वेदमादित्यादिना दूषणमाह__ . अपृथग्वेदनात् पूर्वं तदत्र प्रतिपादितात्। . . ऐकरूप्यापरिज्ञानपर्यन्तेषु न सिद्धता॥२०६८॥
अपृथग्वेदनादिति नीलतद्धियोः सहोपलम्भनियमात्।"अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति" (...) इत्यतः स्वसंवित्प्रसाधनेन प्रतिपादितात्, अभेदस्य नीलतद्धियोः प्रसाधितत्वात्, ऐकरूप्यापरिज्ञानपर्यन्ता हेतवो न सिद्धाः ॥ २०६८॥ स बहिरित्यादिना परः सिद्धिमुद्भावयति
‘स बहिर्देशसम्बद्धः' इत्यनेन ननूच्यते।
ग्राहाकारस्य संवित्तेाहकानुभवादृते॥२०६९॥ आकारवान् बाह्योऽर्थः, "स बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यते" (मी० द० शा० भा० १.१.५) इत्यनेन ग्रन्थेन भाष्यकृता शबरेणग्राह्यसंवित्तिर्ग्राहकानुभवाद्विनापीति प्रतिपादितम् । ततश्च ""तत्संवित्तावसंवित्तेः" (तत्त्व० २०६३) इत्येतत् सिद्धम् ॥ २०६९ ॥ १. सत्यपरामर्शनात्-पा०, सत्यपरस्यापरामर्शनात्- गा०। २. वासनाख्या-गा। ३-३. पा०, गा० पुस्तकयो स्ति।
४. संवित्ता०-पा०, गा०।