________________
४९२
तत्त्वसंग्रहे __ अत्रापति। सर्वेष्वेव हेतुषु । व्यभिचारित्वम् अनैकान्तिकत्वम्; आन्तरानुभवेऽपि प्रमेयत्वादीनां सद्भावात्। 'तथा-तैमिरिकादिज्ञाने प्रतिभासिभिर्द्धिचन्द्राद्यैरनैकान्तिकता। प्रमेयत्वं तु द्विचन्द्रादीनां द्विचन्द्रादीति विकल्पकज्ञानविषयतया द्रष्टव्यम्। न च यस्मिन् विज्ञाने ते भासन्ते तदपेक्षया 'तेषामर्थाधिगमः; अर्थाधिमोक्षाभावात्। यदाह___"केशादिर्नार्थोऽनधिमोक्षत:३" (प्र० वा० २.१) इति ॥ २०५७॥ अन्यथेत्यादिना कुमारिलस्य मतेन व्यभिचारविषयस्यासिद्धिमाशङ्कते
अन्यथा बाह्य एवार्थः संवेद्यश्चेदिहोच्यते। स ह्याह-"इह पीतद्विचन्द्रादिज्ञाने व्यभिचारविषयत्वेनोपन्यस्तो बाह्य एव शङ्खादिरर्थः पीतादिरूपेणालम्ब्यते, ततो व्यभिचारो न सिद्धः" इति । अत्राह
आकारो भासमानोऽसौ न तदर्थात्मको ननु॥२०५८॥ स चैवं भासमानत्वाद् विज्ञानेन प्रवेद्यते। बाह्यस्य तु निजं रूपं नैवं तत्रावभासते॥२०५९॥ अभासमानो वेद्यश्च कथं नामोपपद्यते। .
तं च वेत्त्यन्यथा चेति परस्परविरोधि च॥२०६०॥ अत एवेति प्रसङ्गेन स्वसंवित्तिं साध्यति
अत एव स्ववेद्यत्वं दुःसाधं नैव चेतसाम्। आत्मभूतावभासस्य तथा संवित्तिदर्शनात्॥२०६१॥ तस्माद् बुद्धिरियं भ्रान्ता कल्पयन्त्यर्थमेव न।
कल्पयत्यन्यथासन्तं तेनात्मानमवश्यति ॥२०६२॥ अयमत्र संक्षेपार्थ:-य एवाकारो यस्मिन् ज्ञाने प्रत्यवभासते स एव तेन संवेद्यत इति युक्तम्, अन्यथा हि सर्वं ज्ञानं सर्वविषयं स्यात्। तस्मात् प्रतिभासमानवेन [G.577] संवेद्यत्वं व्याप्तम्। न च पीताकारे ज्ञाने शुक्लाकारः प्रतिभासते, दृश्याभिमतस्यानुपलब्धेरिति व्यापकस्य प्रतिभासमानत्वस्य निवृत्तौ व्याप्यस्य संवेद्यत्वस्य निवृत्तिरिति । प्रयोगः-यो यस्मिन्नाकारे न प्रतिभासते न स संवेद्यः, यथा शब्दज्ञाने न रूपम्। न प्रतिभासते च पीताकारे ज्ञाने शुक्लशङ्खरूपमिति व्यापकानुपलब्धिः। तं च वेत्तीत्यनेन स्ववचनविरोधमाह। तेन यजैमिनीयैरिष्टम्-"अप्रत्यक्षा नो बुद्धिनिराकारा च" इति तदपास्तं भवति। तस्मादित्यादिनोपसंहारः। कल्पयन्ती सती, अर्थमेवान्यथा सन्तम्-विद्यमानं कल्पयतीत्येतन्नेति सम्बन्धः । अनेन च कुमारिलोक्तं प्रतिषेधति ॥ २०५८-२०६२॥ अथेत्यादिना कुमारिलस्यैव प्रमाणमालामाह
अथ यद्ग्राहकं रूपे तद्ग्राह्यात् तस्य भिन्नता।
तत्संवित्तावसंवित्ते रसादिग्राहकं यथा॥२०६३ ।। १. यथा-गा।
. २.०मर्थाधिमोक्षा०-पा०, गा० । ३. केशादिना योऽनधि-मोक्षत:-जै०, पा०; केशादिना योऽनायनाधिगमोऽअत:-गा। ४. दुःसाध्यं-पा०, गा०।
५. ०मवेक्षते-गा०। ६. पा०, गा० पुस्तकयो स्ति। ७-७. संवेद्यनिवृत्तिरिति-पा० । ८-८.कल्पयतीत्येवं नेति-पा०, गा०।