________________
बहिरर्थपरीक्षा
४९१ बाह्यार्थप्रापणं यद्वा तत्सामर्थ्यं यदीष्यते। .
संवादित्वमसिद्धं तद् बहिरर्थापलापिनः ॥२०५२॥ , अर्थक्रियावसाये चेत् प्रत्यये हेतुतेष्यते।
संवादित्वं तथाऽप्येतन्निरालम्बेऽपि शङ्कयते ॥२०५३॥ . तत्र यदि बाह्यार्थप्रापणं तत्प्रमाणशक्तिर्वा संवादित्वं हेतुविशेषमभिप्रेतम्, तदा बहिरापलापिनो विज्ञप्तिमात्रतावादिनस्तदसिद्धमित्यन्यतरासिद्धो हेतुः। अथाभिमतार्थक्रियावभासिप्रत्ययहेतुत्वं संवादित्वमिष्टम्? तदा विपर्यये बाधकप्रमाणानुपदर्शनात् सन्दिग्धविपक्षव्यावृत्तिकतेत्यनैकान्तिको हेतुः; निरालम्बेऽपि ज्ञाने तथाविधसंवादित्वाविरोधात् ॥२०५२२०५३॥ अविरोधमेव समर्थयितुमाह
यथा बाह्यजलादीनां सामर्थ्य नियमो मतः। ज्ञानेष्वपि तथैवैति' सन्दिग्धव्यतिरेकता ॥२०५४॥
अनुमाप्रतिभासेन. स्पष्टः साधारणोऽप्ययम्। स्यादेतत्-असिद्धा निराम्बलनताऽनुमानविकल्पस्य? इत्याह
स्पष्टं हुताशनादीनां रूपं तेन समं न हि॥२०५५॥ किञ्च-अनुमानज्ञानप्रतिभासस्य सत्यपि निरालम्बत्वे संवादित्वमस्तीति निश्चितविपक्षसद्भावात् प्रमेयत्वादिवत् स्पष्टा साधारणानैकान्तिकता हेतोः।
प्रयोगः-यद्यदाकारशून्यं न तत्तद्विषयम्, यथा रूपज्ञानं न शब्दविषयम्, बाह्याकारशून्यं चानुमानज्ञानमिति' व्यापकविरुद्धोपलब्धिः। न चासिद्धो हेतुः। तथा हि-स्पष्टं हुताशनादीनां यत्तद्रूपं न तत्तेन अनुमानज्ञानाकारेण समम्-तुल्यम्; तस्यास्पष्टत्वात् । अन्यथा हि यथा प्रतिष्ठितेन तार्णपार्णादिभेदतो रूपेण प्रत्यक्ष ज्ञाने प्रत्यवभासते, तथैवानुमानज्ञानेऽपि भासेत; यावता प्रतिष्ठितं रूपमुत्सृज्य गमकानुगसामान्यरूपेणैव भासते परोक्षे बाह्यादिरनुमाने। न चैकस्याकारद्वयं सामान्यविशेषात्मकं परस्परविरुद्ध युक्तमिति प्राक् प्रतिपादितम्। नापि विरुद्धो हेतुः; सपक्षे भावात्। नाप्यनैकान्तिकः; अतिप्रसङ्गात् ॥ २०५४-२०५५ ॥
प्रमेयत्वादिहेतुभ्य इत्यादिनोयोतकरस्य प्रमाणान्याशङ्कते. प्रमेयत्वादिहेतुभ्यः सन्तानान्तरचित्तवत्।
आन्तरानुभवाद भिन्नं देशविच्छेदभासि चेत्॥२०५६॥ [G.576) स ह्याह-"यदेतद्देशविच्छेदप्रतिभासि नीलादिकं तदान्तरानुभवाद् भिन्नम्। प्रमेयत्वात्, अनित्यत्वात्, कार्यत्वात्, प्रत्ययत्वात्, हेतुमत्त्वात्, यथा सन्तानान्तरचित्तम्" इति ॥ २०५६॥
अत्रापि व्यभिचारित्वं न रूपेणास्य चेतसः।
तथापि तद् द्विचन्द्राद्यैरस्वस्थनयनेक्षितैः ॥२०५७॥ १. शक्यते-पा०, गा०। २. सामर्थ्य-पा०, गा०। ३. तथैवेते-पा०, गा० । ४.संविदोऽव्यतिरेकता-पा०; : संविदोऽव्यतिरेकता न:- गा०। ५. ०नुमान०-पा०, गा०। ६. तथापी-पा०; तथा हि-गा।