________________
४९०
तत्त्वसंग्रह क्लेशावरणमप्रहीणं स्यादित्यावृतिसद्भावः प्राप्नोति । उपलम्भेन चरन्तीत्यौ पलम्भिकाः, तेषां दर्शने मते। यद्वा-औपलम्भिके भगवतो दर्शने ज्ञानेऽभ्युपगम्यमाने सतीत्ययमर्थः । - अथैकदेशेन सारूप्यम्, तथापि व्याकारस्यापहीणत्वाज्ञयावरणसद्भावः प्राप्नोति; ग्राह्याकारकलङ्कितत्वात्। तथाटेकस्य द्वैरूप्यं भाविकमयुक्तमिति तदवश्यं भ्रान्तं व्यवस्थापनीयम्। ततश्च 'भ्रान्तिबीजस्यादौष्ठल्यस्याप्रहाणादप्रहीणावरण एव भगवान् स्यात्। २०४७ ॥ यदि न किञ्चिज्जानाति, कथं तर्हि सर्वज्ञः स्यात् ? इत्याह
कल्पपादपवत् सर्वसङ्कल्पपवनैर्मुनिः। अकम्प्येऽपि' करोत्येव लोकानामर्थसम्पदम्॥२०४८॥. तेनादर्शनमप्याहुः सर्वं सर्वमिदं जिनम्। . ..
अनाभोगेन निःशेषसर्ववित्कार्यसम्भवात्। २०४९॥ [G.574] अदर्शनमिति। नास्य दर्शनमुपलम्भोऽस्तीत्यदर्शनः। . .
पूर्वप्रणिधानबलादनांभोगेन कल्पतरुवद् यथाभव्यमशेषजगदर्थसम्पादनात् सर्वज्ञमाहुः; नोपलम्भबलात्, स्वभावान्तरस्य सर्वाथाऽप्युपलम्भायोगात् ॥ २०४८-२०४९ ॥ एवं बाह्यार्थनिषेधकं प्रमाणभिधाय तत्साधकं "परप्रणीतमपाकर्तुमाह-धिय इत्यादि।
धियोऽसितादिरूपत्वे सा, तस्यानुभवः कथम्?
धियः सितादिरूपत्वे बाह्योऽर्थः किम्प्रमाणकः॥२०५०॥ तथाहि-प्रत्यक्षतो बाह्यार्थसिद्धिः स्यात्, अनुमानतो वा; अन्यस्य प्रमाणस्य सतोऽत्रैवान्तर्भावात्। तत्र न तावत् प्रत्यक्षतः, तथा हि-प्रत्यक्षाभिमतेन ज्ञानेन निराकारेण वार्थस्य स्यात्, साकारेण वा। न तावनिराकारेण; प्रत्यासत्तिनिबन्धनाभावात्। धियोऽसितादिरूपत्वे सति सा धीस्तस्यार्थस्यानुभवः कथं भवेत् ! नेव भवेदिति प्रागुक्तम्। अथ साकारेण, तदा नीलाद्याकारस्यैवैकस्य ज्ञानगतस्योपलम्भाद् बाह्योऽर्थः परोक्ष एव भवेत्, न प्रत्यक्षः । न हि द्वे नीले कदाचित् संवेद्येते, एकं ज्ञानप्रतिबिम्बकम्, अपरं तदर्पकमित्येवं तावन्न प्रत्यक्षतः सिद्धिः ॥ २०५०॥
अनुमानतस्तर्हि सिद्धिरस्त्विति चेत् ? अत्र भदन्तशुभगुप्तःप्रमाणयति-यो ज्ञानाकारः, स संवादित्वे सति तथाविधापरंपदार्थजनितः, तद्यथा ग्राहक आकारः। ज्ञानाकाराश्चायमविप्लुतेन्द्रियस्य नीलादिप्रतिभासविशेष: संवादीति स्वभावहेतुः । तदिदमाशङ्कते
नीलादिप्रतिभासस्य संवादित्वेन साध्यते।
ज्ञानाकारतया तुल्यजातीयाजन्म बोधवत्॥२०५१॥ संवादित्वेनेति "इत्थम्भूतलक्षणे" (पा० सू० २.३.२१) तृतीया। संवादित्वेनोपलक्षिता या ज्ञानकारता तया हेतुभूतया ज्ञानाकारस्य तुल्यजातीयाज्जन्म साध्यते । बोधवत्ग्राहकाकारवदित्यर्थः ॥ २०५१॥ [G.575] बाह्यार्थत्यादिना दूषणमाह१. ०बीजस्यादोषस्याल्पस्याप्र०-पा०, गा०। २. अकम्पोऽपि-पा०, गा०। ३. सर्वे-पा०, गा० । ४. कल्पतभवत्-पा०1
५. प्रणीतमुपा०-पा०, गा०। ६. तथा-पा०, गा०।