________________
बहिरर्थपरीक्षा
४८९
संवेदनं ततोऽन्येषां न मुख्यं तत् कथञ्चन ॥२०४१॥ एकसामग्रयधीनत्वं कार्यकारणतादि वा। समाश्रित्य भवेन्नाम भाक्तं भूतस्य वेदनम् ॥२०४२॥ नीरूप्यस्य स्वभावस्य नैकसामग्रयधीनता।
न चान्यत् तेन नैवास्ति गौणमप्यस्य वेदनम् ॥२०४३॥ न ह्यभूतस्य मुख्यसंवेदनमस्ति । तथा हि-यदेव प्रकाशात्मकमसाधारणमहङ्कारास्पदं सातादिरूपेण प्रथते रूपमात्मा चित्तचैत्तानाम्, तदेव तेषां संवेदनं मुख्यम्। ततो ज्ञानात्मनोऽन्येषामभूताकाराणां न तन्मुख्यं संवेदनं युक्तम्; तेषामभूतत्वादेव। नापि गौणम्; उपचारनिमित्ताभावात् । तथा हि-एकसामग्र्यधीनत्वम्, कार्यकारणभावः, आदिशब्देन सारूप्यम्, एतदुपचारनिबन्धनं भवेत्। न चाभूतस्यैतत् सर्वमस्ति। न चान्यदस्त्युपचारनिमित्तम्। केवलमविद्यावशादविषयमेवाभूताकारोपदर्शकं ज्ञानं भ्रान्तं जायतें॥ २०४१-२०४३ ॥ स एव तर्हि विभ्रमोऽसत्याकारसंवेदने उपचारनिमित्तं भविष्यतीति चेत् ? अत्राह
अथ वाऽभूतमाकारं वेत्तीति व्यपदिश्यते। विभ्रमान हि तत्त्वेन वेत्ति निर्विषयं हि तत् ॥२०४४॥ त्वयाऽपि यदि विज्ञानमेवम्भूतस्य वेदकम्।
विभ्रमादुच्यते व्याप्तं व्यक्तं निर्विषयं तव ॥२०४५॥ [G.573] तदिति । अभूताकाराविषयत्वेनोक्तज्ञानम् । तथा हि-परमार्थतो नाभूताकारोऽस्ति वेद्यः; तस्य हि विधिना वेद्यत्वोपगमे भूतत्वप्रसङ्गात् ॥ २०४४-२०४५॥ . पुनः स एवाह
"साकारं तन्निराकारं तुल्यकालमतुल्यजम्।। . . इति बौद्धेऽपि विज्ञाने किं न चिन्ता प्रवर्तते ॥" ( . ) इति । . यथा साकारादिविज्ञानेन नार्थस्य ग्रहणं युक्तमिति चिन्ता क्रियते, तथा भगवतोऽपि ज्ञानेनार्थस्य ग्रहणं प्रति किं न क्रियते? इत्यत्राह
साकारं तन्निराकारं युक्तं नान्यस्य वेदकम्।
इति बौद्धेऽपि विज्ञाने न तु चिन्ता प्रवर्त्तते॥२०४६ ॥ - न हि भगवतो ज्ञानं तस्य ग्राहकमिष्यते, येनात्रापि चिन्ता क्रियेत; यावता तस्य सर्वावरणविगमान ग्राह्यग्राहकविकल्पोऽस्तीतीष्टम् ॥ २०४६ ॥
ननु च यद्यपि बाह्योऽर्थो नास्ति ग्राह्यः, तथापि चित्तान्तरमस्त्येव सन्तानान्तरवर्ति, तद्भगवज्ज्ञानस्य किमिति ग्राह्यं न भवेत् ? अत्राह
अन्यरागादिसंवित्तौ तत्सारूप्यसमुद्भवात्।
प्रापोत्यावृतिसद्भाव औपलम्भिकदर्शने॥२०४७॥ अन्यसन्तानवर्ति रागादिसंवेदनं हि यदि, परं सारूप्यादेव युक्तम्, नान्यथा; अतिप्रसङ्गात्। ततश्च यदि सर्वात्मना सारूप्यम्, तदा भगवतोऽपि ज्ञानं रक्तं स्यात्। एवं सति १. च-पा०, गा०।
२. तु भावस्य-पा०, गा०।