________________
४८८
तत्त्वसंग्रहे ततश्च तद्वलेनास्ति नार्थसंवेदनस्थितिः ॥ २०३६ ॥* आकाराव्यतिरिक्तत्वात् ज्ञाने वाऽनेकता भवेत्।
अन्यथा कथमेकत्वमनयोः परिकल्प्यते ?॥२०३७॥ . चित्तास्तरणदर्शने एकस्माज्ज्ञानादयतिरिक्तत्वाज्ज्ञानस्वरूपवदाकाराणां बहुता न प्राप्नोति। एवमाकाराव्यतिरिक्तत्वाज्ज्ञानस्याप्यनेकता प्राप्नोति । ये तु मन्यन्ते-"समानजातीयान्यपि ज्ञानान्याकारसङ्ख्यान्येव बहूनि चित्रास्तरणादिषु युगपत् समुद्भवन्त्येव विजातीयरूपशब्दज्ञानवदिति, ततश्च प्रसङ्गे सिद्धसाध्यता" इति, तेषां चित्रास्तरणे' यथा नीलादयो बहव आकाराः संवेद्यन्ते, एमेकाकारेऽपि सितादावर्वाग्मध्यपरभागरूपा बहव आकारा इति तदात्मकं तत्रापि ज्ञानमनेकात्मकं प्राप्नोति । इष्यत एवेति चेत् ? किमिदानीमेकं ज्ञानं भवतीति वक्तव्यम् ! यदनवयवाणुविषयमिति चेत्? तदेतदमनुभवविरुद्धम्; न हि क्वचिदनवयवमणुरूपं भासमानमालक्ष्यते ज्ञाने। न. चाऽप्यमूर्तानां पौर्वापर्यावस्थानं देशकृतं युक्तम्; येन तस्य सत्यताप्रसिद्धयेऽनेकज्ञानकल्पना साध्वी स्यात्। देशवितानप्रतिभासस्यालीकत्वे कथमाकाराणां सत्यता स्यात् ! न हि देशवितानावस्थितनीलादिप्रतिभासव्यतिरेकेणान्यो नीलादिज्ञानाकारः संवेद्यते। अतोऽनेकज्ञानकल्पनावैयर्थ्यमेव ॥ २०३६-२०३७॥ दूषणान्तरमाह
सर्वात्मना च सारूप्ये ज्ञानेऽज्ञानादिता भवेत्। .
साम्ये केनचिदंशेन सर्वं स्यात् सर्ववेदकम्॥२०३८॥ अज्ञानता-जडरूपत्वम्। आदिशब्देन नसरागता,नसद्वेषतेत्यादि गृह्यते॥ २०३८ ॥ [G.572] अन्यनिर्भासमित्येतत् तृतीयं पक्षान्तरमाश्रित्याह
अन्याकारमपि ज्ञानं कथमन्यस्य वेदकम्।।
सर्वः स्यात् सर्वसंवेद्यो न हेतुश्च नियामक्रः॥२०२९॥ अथापि स्यात्-यज्ज्ञानं येन जनितं तत्तस्यैव संवेदकं भवेत्, तेन न सर्वः सर्वसंवेद्यो भविष्यति? इत्याह- न हेतुश्च नियामक इति। चक्षुरादीनामपि सर्वसंवेद्यत्वप्रसङ्गादिति भावः ॥ २०३९॥ यथा हीत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते
यथा हि भवतां ज्ञानं निराकारं च तत्त्वतः।
वेत्ति चाभूतमाकारं भूतमर्थ तथैव चेत्॥ २०४०॥ स ह्याह-"यथैव भवता विज्ञानवादिनां विज्ञानं परमार्थतो निराकारम्, 'अधातुकनकाकाशशुद्धिवद् बुद्धिरिष्यते' ( ) इति वचनात्, अथ च तमाकारं वेत्ति, तथा बाह्यमपि" इति ॥ २०४०॥ अत्राह
असाधारणमेवेदं स्वरूपं चित्तचैत्तयोः। . . **श्लोकोऽयं जै० पुस्तके द्विरावृत्तो दृश्यते। १. येषां चित्रास्तरणे-जै० पुस्तकेऽधिकः पाठः। २. वा०-पा०, गा०। ३. भूतं सर्व-पा०, गापा०, गा० ।