________________
४८७
बहिरर्थपरीक्षा - संवेदनमिदं सर्वं न चार्थान्तरगोचरम्।।
संवेदनस्वभावत्वात् स्वात्मसंवेदनं यथा॥२०३२॥ यद् यत् संवेदनं तत्तज्ज्ञानान्नार्थान्तरविषयम्, यथा आत्मसंवेदनम्। संवेदनं चेदं नीलाद्याकारस्येति विरुद्धव्याप्तोपलब्धिः; अर्थान्तरगोचरत्वविरुद्धेनानान्तरगोचरत्वेन संवेदनस्य व्याप्तत्वात्॥ २०३२॥ तामेव व्याप्तिं साधयन्नाह
मुख्यतोऽर्थं न गृह्णाति स्वस्वभावव्यवस्थितेः। अर्थाकारोपरागेण वियोगाच्च न भक्तितः॥२०३३॥ शुद्धस्फटिकसङ्काशमथाकारैरनङ्कितम् ।
यैरिष्टं वेदनं कैश्चिदिदं तान् प्रति साधनम् ॥२०३४॥ निर्व्यापारत्वात् सर्वधर्माणां न परमार्थतः कस्यचित् केनचिद् ग्रहणम्, केवलं प्रकाशरूपतया तथा प्रथमानं विज्ञानमात्मनो ग्राहकमुच्यते। न चैव मुख्यतोऽर्थस्य ग्राहकं ज्ञानं युक्तम् सर्वभावानां स्वस्वभावव्यवस्थितेः । न हि तदात्मा यः सोऽपरस्यापि।
.. स्यादेतत्-न हि मुख्यतो यादृशं ज्ञानस्यात्मसंवेदनं तादृगेवार्थस्येष्टम्, किं तर्हि ? स्वाभासज्ञानजनकत्वमेवार्थस्य संवेद्यत्वम्। ततश्च यदि मुख्यं संवेदनं हेतुत्वेनोपादीयते तदा हेतोरसिद्धता। अथापि यथाकथञ्चित् संवेदनशब्दवाच्यतासाम्यात्? तथापि न तथाविधादिष्टसिद्धिः; न हि गोशब्दसाम्य़ाद् रासभादीनां विषाणित्वसिद्धिः । अथ ज्ञानारूढं नीलाद्याकारं धर्मिणमाश्रित्य साकारज्ञानपक्षे द्विविधोऽपि हेतुरभिप्रेतः; तदा सिद्धसाध्यता । यथोक्तम्... "साकारज्ञानपक्षे च तन्निर्भासस्य वेद्यता।
तस्याभेदे च संसाध्ये सिद्धसाधनता भवेत्"। ( ) इति । एतत् सर्वं भदन्तशुभगुप्तस्य चोद्यमाशङ्कयाह-अर्थाकारोपरागेणेत्यादि।अर्थाकार:= अर्थसदृशश्चासावुपरागो निर्भासश्चेत्यकारोपरागः । इदमिति। द्विविधमपि साधनं निराकारवादिनं प्रतियतः, तेन न सिद्धसाध्यता। नाप्युपंचारेणान्यस्य संवेदनमस्ति; उपचारनिबन्धनाभावात् ॥२०३३-२०३४॥ [G.571] एवं तावदनिर्भासं ज्ञानं न बाह्यमर्थं विजानातीति प्रतिपादितम्। नापि सनि समिति द्वितीयं पक्षमाश्रित्य प्रतिपादयन्नाह
अस्तु न हि ससारूप्यं विज्ञानं बाह्यवेदकम्।
तस्यापि सर्वथाऽयोगान युक्ता वेदकस्थितिः॥२०३५॥ न हि भाविक आकारों युक्तः; यतस्तद्वशादर्थव्यवस्थानं स्यात्। न चालीकेन साकारेणार्थः संविदितो भवेत्; भ्रान्तेऽपि ज्ञाने तथाविधस्य भावात् ॥ २०३५ ॥ "कथमलीकत्वमाकाराणामिति चेत् ? आह
ज्ञानादव्यतिरिक्तत्वान्नाकारबहुता भवेत्। १. संवेदनं च...... - पा०; संवेदनं च नीलस्य - गा०। २. गवयादीनां-पा०, गा० । ३-३. तर्हि-पा०, गा०।
४. कथमलीकत्वं साकाराणाo-पा०, गा०।