________________
४८६
तत्त्वसंग्रहे पुनरुपलम्भानां सन्तानकाले भेदेन [G.569) स्वलक्षणनानात्वम् । तेनायमर्थो भवतियदुपलम्भ एव यस्योपलम्भः, नान्योऽपीति। न च भगवज्ज्ञानोपलम्भ एवान्यसन्तानगतचित्तोपलम्भः, नाप्यन्यसन्तानगतचित्तोपलम्भ एव भगवज्ज्ञानोपलम्भः, अपि त्वन्योऽपि; पृथक्त्वस्य स्वस्यापि चित्तस्य संवेदनात् ! अत एव न रूपालोकैर्व्यभिचारः; केवलस्याप्यालोकदर्शनात्। रूपस्याप्यालोकरहितस्य कैश्चित् प्राणिविशेषैरुपलम्भात्। तस्माद्विपक्षे भावासम्भवान्नानैकान्तिको हेतुः ॥ २०२९-२०३० ॥
स्यादेतत्-यद्यपि विपक्षे सत्त्वं न निश्चितम्, सन्दिग्धं तु; ततश्चानैकान्त एवरे हेतुः; सन्दिग्धविपक्षव्यावृत्तिकत्वात्। तथा हि-विषयविषयिभावेन नियतत्वादन्यथापि सहोपलम्भनियमः सम्भवत्येव; यतो ज्ञानस्य ग्राहक एव स्वभावः, विषयग्रहणधर्मकत्वात् तस्य। विषयस्यापि तद्ग्राह्य एव स्वभावः, तयोश्चैकसामग्र्यधीनत्वान्नित्यं सह भाविता। न च सहोत्पादाविशेषेऽपि चक्षुरादीनां विषयत्वप्रसङ्गः; तथाविधस्वभावाभावात्। तथा हिसामग्र्या नीलादिविषयाध्यवसायरूपमेव ज्ञानं जन्यते, न चक्षुराद्यध्यवसायरूपम्। नीलादिरपि तु तदध्यवसीयमानरूपो जनितः, न चक्षुरादिरिति । आह- . .
"नान्योऽस्ति ग्राहको ज्ञानाच्चाक्षुषैर्विषयैर्विना। .
अतश्च सहसंवित्तिर्नाभेदान्नीलतद्धियोः ॥" "पूर्विकैव तु सामग्री तज्ज्ञानं विषयक्षणम्। ... सालोकरूपवत् कुर्याद् येन स्यात् सहवेदनम् ॥" ( ) अत्राह
न ज्ञानात्मा परात्मेति नीलधीवेदने कथम्।
नीलाकारस्य संवित्तिस्तयोर्नो चेदभिन्नता ॥२०३१॥ न हि व्यतिरिक्तस्य प्रतिबन्धनमन्तरेण सहोपलम्भनियमो युक्तः; अतिप्रसङ्गात् । न चात्र व्यतिरिक्तस्य संवेदने कश्चित् प्रतिबन्धोऽस्ति। तथा हि-प्रतिबन्धो भवन्भवेत्तादात्म्यम्, तदुत्पत्तिर्वा । न तावत्तादात्म्यमत्र परेणेष्टम्, तस्यैव साध्यत्वात्। नापि तदुत्पत्ते सहवेदनम् सहभूतयोः कार्यकारणभावात्। चक्षुरादीनामप्युपलब्धिप्रसङ्गाच्च। नापि पूर्वसामग्रीवशाद् यौगपद्यमात्रेण पिषयविषयिभावः; चित्तचैत्तानां चक्षुरादीनां च परस्परं विषयविषयित्वप्रसङ्गात्। नापि सामग्र्या प्रतिनियतविषयविषयिरूपेण जनितत्वान्नातिप्रसङ्ग इति युक्तं वक्तुम्; विषयविषयित्वस्यैव विचार्यमाणत्वेनासिद्धत्वात्। सिद्धे हि प्रतिबन्धे विषयविषयिभावो युक्तः; यावता स एव विषयविषयिभावव्यवस्थायां प्रतिबन्धो विचार्यते। न च तादात्म्यतदुत्पत्तिव्यतिरेकेणापर: [G.570] प्रतिबन्धोऽस्ति, योत विषयविषयिभावः सिध्येत्। नापि तादात्म्यतदुत्पत्तिभ्यां विषयविषयिभावो युक्त इति विचारितम् । अतो न व्यतिरिक्तस्य कथञ्चित् सहोपलम्भोऽस्तीति कुतः सन्दिग्धविपक्षव्यावृत्तिकता हेतोः ॥ २०३१ ॥
द्वितीयमपि साकारतासिद्धये साधनमाह१. स्वलक्षणानां नानात्वम्-मा० ।
२-२. रनैकान्तो-प्रा०, गा०। ३. च्चक्षुर्धाविषयैर्विना-जै० पुस्तके पाठान्तरम्।
४. प्रज्ञानं-पा०,गा।