________________
बहिरर्थपरीक्षा
४८५ पुनः स एवाह-"यदि सहशब्द एकार्थः, तदा हेतुरसिद्धः । तथा हि नटचन्द्रमल्लप्रेक्षासु न ह्येकेनैवोपलम्भो नीलादेः । नापि नीलतदुपलम्भयोरेकेनैवोपलम्भः । तथा हि-नीलोपलम्भेऽपि तदुपलम्भानामन्यसन्तानगतानामनुपलम्भात्। [G.568] यदा च सर्वप्राणभृतां सर्वे चित्तक्षणाः सर्वज्ञेनावसीयन्ते, तदा कथमेकेनैवोपलम्भः सिद्धः स्यात् ! किञ्च-अन्योपलम्भनिषेधे सत्येकोपलम्भनियमः सिध्यति । न चान्योपलम्भप्रतिषेधसम्भवः स्वभावविप्रकृष्टस्य विधिप्रतिषेधायोगात् । अथ सहशब्द एककालविवक्षया, तदा बुद्धविज्ञज्ञेयचित्तेन चित्तचैतैश्च सर्वथाऽनैकान्तिकताहेतोरेककालविवक्षया। यथा किल बुद्धस्य भगवतो यद्विज्ञेयं सन्तानान्तरचित्तम्, तस्य बुद्धज्ञानस्य च सहोपलम्भनियमोऽप्यस्त्येव च नानात्वम्, तथा चित्तचैत्तानां सत्यपि सहोपलम्भे नैकत्वमित्यतोऽनैकान्तिको हेतुः" इति।।
तदेतत् सर्वमसम्यक्; न ह्यत्रैकेनैवोपलम्भ एकोपलम्भ इत्ययमर्थोऽभिप्रेतः, किं तर्हि ? ज्ञानज्ञेययोः परस्परमेक एवोपलम्भः, न पृथगिति । य एव हि ज्ञानोपलम्भः स एंव ज्ञेयस्य, य एव ज्ञेयस्य स एव ज्ञानस्येति यावत्। न च नटचन्द्रमल्लप्रेक्षासु कश्चिज्ज्ञानोपलम्भोऽस्ति यो न ज्ञेयोपलम्भकः, ज्ञेयोपलम्भो वा न ज्ञानोपलम्भक इति कुतोऽसिद्धता!
____नापि सन्दिग्धासिद्धता। तथाहि-यदेवात्मसंवेदनं ज्ञानस्य, तदेवार्थस्येति परेणापि बाह्यार्थवादिनाऽङ्गीकृतम्। एतेन 'एकस्यैवोपलम्भ एकोपलम्भः' इत्येवं विकल्प्य योऽसिद्धतादोष उक्तः, स तत्पक्षानङ्गीकृतेरेवापास्तो द्रष्टव्यः। न च बुद्धस्य भगवतश्चित्तेन परसन्तानवर्तिनश्चित्तक्षणा अवसीयन्ते; तस्य भगवतः सर्वावरणविगमेन ग्राह्याग्राहककलङ्करहितत्वात्।
यथोक्तम्-.
- "ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयापि शून्यम्"
' ( ) इति। अक्षुण्णविधानं त्वाधिपत्यमात्रेण । यथोक्तम्-"पूर्वप्रणिधानाहितसततानाभोगवाहि परकार्यम्" इति। "सर्वार्थकारित्वात् सर्वज्ञ इष्यते" (तत्त्व० ) इति वक्ष्यति। तस्मानासिद्धता हेतोरिति। .
ननु चाचार्यधर्मकीर्तिना-"विषयस्य ज्ञानहेतुतयोपनिधिः प्रागुपलम्भः पश्चात् संवेदनस्येति चेत्" (.)इत्येवं पूर्वपक्षमादर्शयता एककालार्थः सहशब्दोऽत्र दर्शितः, न त्वभेदार्थः । एककाले हि विवक्षिते कालभेदोपदर्शनं परस्य युक्तम्, न त्वभेदे सतीति चेत् ? न; कालभेदस्य वस्तुभेदेन व्याप्तत्वात् कालदर्शनमुपलम्भे नानात्वप्रतिपादनार्थमेव सुतरां युक्तम् ; व्याप्यस्य व्यापकाव्यभिचारात्। नापि बुद्धविज्ञेयचित्तेनानैकान्तिको हेतुः, न हि तत्रैकोपलम्भनियमोऽस्ति'; पृथक् पृथक्सवैरेव चित्तस्य संवेदनात्। अत एव चित्तचैत्तैर्व्यभिचार:६; तेषामपि प्रत्येकमात्मन एव संवेदनात्।
अथ वा-भवतु भगवच्चित्तेन परिचित्तस्य संवेदनम्, तथापि नानैकान्तिकता; नियमेन . व्यावर्तितत्वात् । ययोर्हि परस्परमुपलम्भनानात्वमपि सम्भवति तनियमेन व्यावर्तितम्, न तु १. सत्त्वं प्राण-पा०, गा०। २. ०हेतो:- पा०, गा०। ३. नियमेऽस्त्येक-पा०। ४. कालभेदोपदर्शन०-गा। ५.०लम्भस्ति-पा०/
६. चित्तविपर्ययविचार:-पा०, गा०॥