________________
तत्त्वसंग्रहे
भयात् स्वसंवित्त्या स्वत एव सिद्धिरभ्युपगम्यते, तदा तद्वदेव सर्वस्य ज्ञानत्वाविशेषात् स्वसंविदस्तु। प्रयोगः–यज्ज्ञानं तदात्मबोधं प्रत्यनपेक्षितान्यव्यापारम्; ज्ञानत्वात् । ज्ञानं च विवादास्पदीभूतं ज्ञानमिति स्वभावहेतुः । अन्यथा हि यत् स्वतो न सिद्धम्, तस्य घटादिवज्जडरूपतया ज्ञानत्वमेव हीयेतेति बाधकं प्रमाणम् ॥ २०२५-२०२७ ॥
४८४
" सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा" (तत्त्व० २०१४) इत्याहविज्ञानं जनयद् रूपे चक्षुस्तस्य प्रकाशकम् ।
न तु तस्यावबोधत्वात् तज्ज्ञानेनास्य कोपमा ॥ २०२८ ॥
[G.567] रूपविषयं विज्ञानं जनयच्चक्षू रूपस्य प्रकाशकमुच्यते । विज्ञानं तु न किञ्चिद्रूपे करोति; विरूपस्यैव ज्ञानकत्वात् । न चाकुर्वत् किञ्चित् प्रकाशकं युज्यते; अतिप्रसङ्गात् । तस्मात् । उपमा=सादृश्यम् ॥ २०२८ ॥
यत्संवेदनमित्यादिना नीलाद्याकारतद्धियोरभेदसाधनाय निराकारज्ञानवादिनं प्रति
प्रमाणयति
यत्संवेदनमेव स्याद् यस्य संवेदनं ध्रुवम् ।
तस्मादव्यतिरिक्तं तत् ततो वा न विभिद्यते ॥ २०२९ ॥ यथा नीलधियः स्वात्मा द्वितीयो वा यथोडुपः । नीलधीवेदनं चेदं नीलाकारस्य वेदनम् ॥ २०३० ॥
यस्य संवेदनं यत्संवेदनम्, तदेव यन्न संवेदनं यस्य संवेदनं नियमेन नान्यत् । तस्मात्=प्रथमयच्छब्दवाच्यात् । अभिन्नं कृतमेकान्तेन । तत्-द्वितीयं यच्छब्दवाच्यम् । यद्वाविपर्ययेणाभेदः साध्यः। एतदुक्तं भवति - यस्मादपृथक्संवेदनमेव तत्तस्मादभिन्नम् ; यथा नीलधी: : स्वस्वभावात् । यथा वा- - तैमिरिकज्ञानप्रतिभासी द्वितीय उडुपः = चन्द्रमाः । नीलधीवेदनं चेदमिति पक्षधर्मोपसंहारः । धर्म्यत्र नीलाकारतद्धियौ । तयोरभिन्नत्वं साध्यधर्मः । यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवा चायये " सहोपलम्भनियमात् " ( प्र० विनि० परि०१) इत्यादौ प्रयोगे हेत्वर्थोऽभिप्रेतः ।
तत्र भदन्तशुभगुप्तस्त्वाह - विरुद्धोऽयं हेतुः ; यस्मात्
" सहशब्दश्च लोकेऽन्यस्मिन्त्रैवानेन विना क्वचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥ " इति ?
तदेतदसम्यक्`; यस्य विपक्ष एव भावः स विरुद्धो हेतुः । न चास्य विपक्ष एव; सपक्षेऽपि भावात् । तथा हि- चन्द्रद्वयस्य सहोपलम्भाभिमानोऽस्ति लोके, न च तयोर्भेदोऽस्ति परमार्थतः । अथ च सह शशिद्वयोपलम्भात् सहेति वक्तारो भवन्ति । एवमिहापि ज्ञानादव्यतिरिक्तमपि बहिरिव भासमानमाकारं द्वितीयं कृत्वा कल्पितभेदनिबन्धनः सहशब्दः प्रयुक्तः । न हि सर्वः शाब्दो व्यवहारो यथावस्तुनिवेशी, येन सहशब्दप्रयोगमात्रेणं वस्तुप्रतिबद्धस्य लिङ्गस्यान्यत्वं स्यात्,यतो विरुद्धो हेतुर्भवेत् ।
१. वेदनात् पा०, गा० ।
४. प्रतिभाभासी— पा०. गा० ।
२- २. पा०, गा० पुस्तकयोर्नास्ति ।
५. न्यन्नैवा० - पा०, ० न्यस्मान्नैवान्येन गा० ।
३. यत् यस्मा०- गा० /
६. तदेतसम्यक् - गा० ।