________________
बहिरर्थपरीक्षा
४८३ नापीन्द्रियालोको; तयोंश्चक्षुर्ज्ञान एवोपयोगात् । नापि निर्निमित्ता; सदा सत्त्वादिप्रसङ्गात्। सैव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेत् ? इत्याही
गोचरान्तरसञ्चारस्तथा न स्यात् स चेक्ष्यते। एवं हि विषयान्तरसञ्चारो न प्राप्नोति, तथा हि-पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य ज्ञानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया तो तादृशीमन्तरङ्गिकां त्यक्त्वा कथं च बहिरङ्गमर्थं गृह्णीयात् ! न चाप्यर्थः सन्निहितोऽपि तां प्रतिबोद्धम्' [G.566] समर्थः; तस्य बहिरङ्गत्वात् । अथ बहिरङ्गोऽपि सन् प्रतिबनीयात्, तदा न कदाचित् कश्चिद् बुद्धिमनुभवेत् । तथा हि-न सा काचिदवस्थाऽस्ति यस्यामर्थो न सन्निहित इति। स्मृतिरप्युच्छिन्ना स्याद्; अननुभवाभावात्। किञ्च-येऽतीतादिविकल्पा विषयसन्निधानमन्तरेण भवन्ति, तेषां सञ्चारकारणाभावाद् विकल्पपरम्परायामासंसारमवस्थानान्न कस्यचिदर्थचिन्ता स्यात्। भवतु नामार्थान्तरसञ्चारोऽनुपद्यमानोऽपि, तथापि यत्तदन्त्यज्ञानं तत् केनानुभूयेतेति वक्तव्यम्।
अथापि स्यात्-सैवोत्तरा बुद्धिरर्थान्तरग्राहिणी पूर्वां धियमर्थं चोभयमपि गह्नातीति? तदेतदसम्यक्; तथा हि-यदा शब्दज्ञानादनन्तरं रूपग्रांहि ज्ञानं भवति, तस्मिन् रूपग्राहिणि ज्ञाने शब्दज्ञानस्य प्रतिभासात् तदा रूढस्यापि शब्दस्य प्रतिभासः प्राप्नोति । यस्यापि निराकारज्ञानं तस्यापि न शब्दग्रहणमन्तरेण तद्ग्राहकस्य ग्रहणं युक्तम्, न हि दण्डग्रहणमन्तरेण तद्ग्राहकस्य दण्डिनो ग्रहणं न्याय्यमिति रूपग्राहिणि चक्षुर्ज्ञाने शब्दस्यापि प्रतिभासः स्यात्। तथा चिन्ताज्ञानेऽप्याकारादिविषयिणि यथोक्तनीत्याऽभिलाषद्वयमेकस्मिनक्रमेण स्यात्। तथा हियदेकारचिन्तासमनन्तरमकारं चिन्तयति तदा तदकारचिन्ताज्ञानमिकारग्राहकमपि चिन्तयतीति स्वज्ञानसमारूढस्येकाराभिलापस्याकाराभिलापिनि ज्ञाने प्रतिभासः प्राप्नोति। किञ्च- सर्वमेव वस्तु वारद्वयं प्रतिभासेत; स्वज्ञानकालेऽवभासनात्। न चैवं प्रतिभासोऽस्तीत्ययुक्तमुत्तरया बुद्धया द्वयोर्ग्रहयाम्। .
अथापि स्यात्-एकमन्त्यं ज्ञानमननुभूतमस्मृतं चास्ताम्, को दोषः स्यात् ? इत्याह..गोचरान्तरसञ्चारे यदन्त्यं तत् स्वतोऽन्यतः॥२०२५॥
न सिद्धमस्य चासिद्धौ सर्वेषामप्यसिद्धता। ... अतश्चान्ध्यमशेषस्य जगतः सम्प्रसज्यते॥२०२६॥
अन्त्यस्य तु स्वतः सिद्धावन्येषामपि सा ध्रुवम्। ..
ज्ञानत्वादन्यथा नैषां ज्ञानत्वं ते घटादिवत्॥२०२७॥ स्वसंवित्तेरनभ्युपगमान स्वतः सिद्ध:१९, नापि परतः; अनवस्थादोषात्। तस्यान्तस्यासिद्धौ सत्यां पूर्वकस्याप्यसिद्धिः; अप्रत्यक्षोपलम्भकत्वात्। ततश्चार्थस्याप्यसिद्धिरिति न कदाचित् किञ्चिदप्युपलभ्येत१२, ततश्चान्ध्यमायातमशेषस्य जगतः ! अथान्तस्य यथोक्तदोष१-१. चेदाह-पा०, गा०।
२. प्रतिरोद्धं-पा०, गा०। ३. वृद्धि-पा०। . ४. पा०, गा० पुस्तयो स्ति। ५. यदन्यज्ज्ञानं-पा०, गा०। ६. अथ-पा०, गा०। ७. ०प्यकारादि० पा०, गा०। ८..०त्रुक्तक्रमेण-गा०/ अक्रमेण युगपत् । ९-९. न सि..... सिद्धौ-पा० न सिद्ध्येत्तस्य चासिद्धौ-गा।
१०. स्याद्-पा०, गा०। ११-११. सिद्धतापि-पा०; सिद्धता नापि-गा०। १२. किंचिदुपलभ्येत-पा०, गा०।