________________
तत्त्वसंग्रहे
प्रकृत्या जडरूपत्वान्नास्यात्मानुभवो यदि । ज्ञानसंवेदनाभावात् परार्थानुभवस्तदा ॥ २०.२० ॥
यदि विज्ञानं जडरूपतयाऽऽत्मानं न संवेदयते, तदा तस्य स्वतोऽप्रत्यक्षत्वेऽर्थानुभवोऽप्यप्रत्यक्षतया नष्टः स्यात् ॥ २०२० ॥
४८२
स्यादेतद्- यदि नाम ज्ञानमप्रत्यक्षम्, अर्थानुभवोऽपि किमित्यप्रत्यक्षो भवेत्, न हि रूपस्याप्रत्यक्षत्वे शब्दस्याप्यप्रत्यक्षता स्यात् ? इत्याह
-
अर्थस्यानुभवो नाम ज्ञानमेवाभिधीयते ।
तस्याप्रसिद्धिरूपत्वे प्रसिद्धिस्तस्य का परा ॥। २०२१ ॥
न हि ज्ञानस्यान्यद्रूपं निर्धारयामोऽन्यत्रार्थानुभावात्' । अनिर्धारयन्तः स्ववाचमन्यत्वं निश्चयं व्यवहरन्तः स्वपरान् विप्रलभेमहि । तस्य ज्ञानस्याप्रसिद्धरूपत्वे सति प्रसिद्धिस्तस्यार्थानुभवस्य का परा भवेत्, नैव काचित् ॥ २०२१ ॥
अथापि स्यात् - ज्ञानान्तरेण तस्य सिद्धिर्भविष्यति ? इत्याहज्ञानान्तरेणानुभवे सोऽर्थः स्वानुभवे सति ।
.
[G.565] सिद्धेः
न' सिद्धः सिद्ध्यसंसिद्धेः कदा सिद्धो भवेत्पुनः ॥ २०२२ ॥ तज्ज्ञानज्ञानजातौ चेदसिद्धः स्वात्मसंविदि । : परसंविदि सिद्धस्तु स इत्येतत् सुभाषितम् ॥ २०२३॥ : ज्ञानस्य, असिद्धि: । नह्यसिद्धव्यक्तिकं व्यक्तमिति युज्यते । तथा हिन तावदर्थस्य स्वानुभवकालेऽपि सिद्धिः तदभिव्यक्तिस्वभावस्यानुभवस्य तदानीमसिद्धत्वात् कदा तस्य सिद्धिर्भविष्यतीति वक्तव्यम् । तज्ज्ञानज्ञानजातौ अर्थज्ञानज्ञानोत्पत्तिकाले १० सिद्धिर्भविष्यतीति चेत् ? एतदति सुभाषितम् ! यो हि नाम स्वानुभवकाले न सिद्ध:, स कथमस्वानुभवकाले" सेत्स्यतीति ! ॥ २०२२ - २०२३ ॥
सिध्यतु नाम यद्यनवस्था न भवेत्, सा तु दुर्वारेति दर्शयन्नाहतस्याप्यनुभवेऽसिद्धे” प्रथमस्याप्यसिद्धता ।
तत्रान्यसंविदुत्पत्तावनवस्था प्रसज्यते ॥ २०२४॥
तस्येति द्वितीयस्यार्थज्ञानज्ञानस्य । प्रथमस्येतिं अर्थानुभवस्य । असिद्धतेति । नास्य सिद्धिरस्तीत्यसिद्धः, तद्भावोऽसिद्धता ॥ २०२४ ॥
किञ्च-यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यत एव - ज्ञानज्ञानं ममोत्पन्नमिति, तस्याप्यपरेणानुभवो वक्तव्यः, न ह्यननुभूते स्मृतिर्युक्ता । ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम् । न तावदर्थः; तस्य मूलज्ञानविषयत्वात् ।
१. ० स्तथा- गा० ।
४. स्वभावमन्यं तं गा० । ७. असिद्धे :- पा०, गा० । ९. न युज्यते - गा० । १२. ० प्यनुभवे..
पा० ।
२. इष्ट:- पा० ।
५. स्वपरानु- पा० । ८. प्रसिद्धव्यक्तिकं पा०, १०. ० कलि- पा०, गा० । १३. सिद्धतेति पा० ।
३. ०नुभवात् पा०, गा० ।
६. प्रसिदि: पा०; असिद्ध :- गा० असिद्धव्यक्तिकं - गा० ।
११. व्यन्यानुभव -- गा० ।