________________
बहिरर्थपरीक्षा
किमित्यात्मप्रकाशने शक्तिर्नास्ति ? इत्याह- शक्तिश्च सर्वभावानामित्यादि । यथाह"अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम् !" इति ॥ २०१५ ॥ चेत्यादिना प्रतिविधत्ते
ननु
चार्थस्य संवित्तिर्ज्ञानमेवाभिधीयते ।
तस्यां तदात्मभूतायां को व्यापारोऽपरो भवेत् ॥ २०१६ ॥
इत्याह
यदुक्तम्–“व्यापृतं ह्यर्थवित्तौ" (तत्त्व० २०१२) इति, तदसङ्गतम् ; नह्यर्थवित्तिरन्या ज्ञानात्। तथा हि-वित्तिरुपलब्धिरर्थप्रतीतिर्विज्ञप्तिरिति ज्ञानमेवैतैः पर्यायैरभिधीयते । तस्यां चार्थवित्तौ तदात्मभूतायाम् कीदृशोऽपरो ज्ञानस्यार्थसंवेदनात्मको भवेदात्मन्यव्यतिरिक्तो येनार्थवित्तौ व्यापृतमिति स्यात् ' ! न चात्मन्येव व्यापृतिर्युक्ता ॥ २०१६ ॥
स्यादेतत्, ज्ञानात्मत्वमेवार्थवित्तेः कथं सिद्धम्, येन पर्यायता ज्ञानार्थसंवित्त्योः ?
अर्थस्यानुभवो रूपं तच्च ज्ञानात्मकं? यदि । - तदर्थानुभवात्मत्वं ज्ञाने. युक्तं न चास्ति तत् ॥ २०१७॥ उपेतार्थपरित्यागप्रसङ्गात् तस्य तु स्वतः । जातेऽप्यनुभवात्मत्वे नार्थवित्तिः प्रसिध्यति ॥ २०१८ ॥ अर्थस्यानुभवोऽवश्यं रूपम् = स्वभावोऽङ्गीकर्त्तव्यः । अन्यथा कथं तत्र ज्ञानं व्याप्रियेत ! न ह्यसति शशविषाणादौ कस्यचिद् व्यापारणं युक्तम् ! ततश्च तदर्थानुभवात्मकं रूपम्=स्वभावो यदि ज्ञानादव्यतिरिक्तं भवेत्, तदा ज्ञानेऽर्थानुभवात्मकत्वं यत्तदुक्तम् — “ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्” (तत्त्व० २०१३) इति, तद्युक्तं स्यात् । कदाचिन्निर्बध्यमानोऽर्थानुभवादव्यतिरिक्तं ज्ञानमभ्युपगच्छेदपि पर इत्याह- न चास्ति तदिति । तत् = ज्ञानादतिरिक्तमनुभवस्य' । उपेतोऽर्थः = अभ्युपगतो ज्ञानस्यात्मसंवेदनविरहलक्षणः, तस्य परित्यागप्रसङ्गः; ज्ञानस्यार्थानुभवाव्यतिरेकाभ्युपगमे स्वसंवित्तिप्रसङ्गात् ।
[G.564] स्यादेतत्, नार्थानुभवात्मत्वाज्ज्ञानस्य प्रकाशकत्वमिष्टम्, किं तर्हि ? अनुभवात्मत्वादेव केवलादित्याह - तस्य तु स्वत इत्यादि । तस्य = ज्ञानस्य । यद्यप्यनुभवात्मकत्वमेव केवलं जातं नार्थानुभवात्मत्वम्, तथा 'नीलस्येयं संवित्तिर्न पीतस्य' इत्यादिभेदेनार्थसेवित्तिर्न सिध्येत्
।। २०१७-२०१८ ।।
किमिति न सिध्येत् ? इत्याह
४८१
-
न हि तत्र परस्यास्ति प्रत्यासत्तिर्निबन्धनम् ।
१. भवेत् - पा०, गा० ।
३. ०रिक्तत्वमनु० - पा०, गा० ।
यथा साकारविज्ञानपक्षेऽर्थप्रतिबिम्बकम् ॥ २०१९ ॥
परस्येति अनाकारज्ञानवादिनः, यस्येदं दर्शनम् -' आकारवान् बाह्योऽर्थो निराकारा बुद्धि:' इति ॥ २०१९ ॥
ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकमित्यत्राह -
२-२. ...... नात्मकं- पा० ।
४. तथा च- गा० ।