________________
४८०
तत्त्वसंग्रहे वनासंवृत्त्या कथ्यत एच; अन्यथा हि रूपादीनामपि विशेषो न वक्तव्यः स्यात् । न चेत्थमनवधारितेन रूपेणार्थस्य संवेदनं ज्ञानमिति विस्पष्टमसंशयं निर्दिष्टं भवति; तस्मादनिरूपितेन [G.562]रूपेण भावव्यवस्थाने सुव्यवस्थिता भावा इति यत्किञ्चिदेतत् ।। २००८२००९॥ , स्यादेतत्। परिच्छेद्यार्थाभावे कस्यासौ.परिच्छेदो भवेत् ? इत्याह__ परिच्छेदः स कस्येति न च पर्यनुयोगभाक्।
परिच्छेदः स तस्यात्मा सुखादेः साततादिवत् ॥२०१०॥ आत्मैव हि स तस्य प्रकाशात्मतया परिच्छेद इत्युच्यते, यथा सुखादेः साततेति । न हि सुखस्येति व्यतिरेकनिर्देशमात्रेण ततोऽन्यता सातता भवेत्। तस्माद् यद्यपि नीलस्य परिच्छेदः पीतस्येति वा व्यतिरेकीव व्यपदेशः, तथापि स्वभाव एव स तथा नीलादिरूपेण प्रकाशमानत्वात् तथोच्यते'; स्वसंवेदनरूपत्वाज्ज्ञानस्य ॥ २०१०॥ . . ' अथ कोऽयं स्वसंविदर्थो यद्बलात्तथोच्यते? इत्याह- .
स्वरूपवेदनायान्यद् वेदकं न व्यपेक्षते। .
न चाविदितमस्तीदमित्यर्थोऽयं स्वसंविदः॥२०११॥ व्याप्तमित्यादिना स्वरूपवेदनायान्यन्न व्यपेक्षत इत्यत्र कुमारिलश्चोधमाशङ्कते
व्यापृतं ह्यर्थवित्तौ च नात्मानं ज्ञानमृच्छति।।
तेन प्रकाशकत्वेऽपि बोधायान्यत् प्रतीक्षते ॥२०१२॥ स ह्याह-यद्यपि ज्ञानं प्रकाशात्मकम्, तथाप्यात्मप्रकाशनाय परमपेक्षते। न तु स्वयमात्मानमृच्छति-प्रतिपद्यते, तस्यार्थप्रकाशन एव व्यापृतत्वात्। न ह्येकत्र व्यापृतस्य तदपरित्यागेनान्यत्र व्यापारणं युक्तम् ॥ २०१२ ॥ अत्र प्रदीपेन व्यभिचारितामाशङ्कय पक्षान्तरमाह
ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम्।
न चात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम्॥२०१३॥ ननु चासत्यात्मप्रकाशात्मकत्वे बाह्यप्रकाशकत्वमप्यस्य कथं व्यवस्थाप्यते? इत्याह
सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा।
रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ॥२०१४॥ यथा चक्षुरादीनां रूपादौ विषये प्रकाशकत्वव्यवस्थानमसत्यप्यत्मप्रकाशकत्वे, तथाऽत्रापि ज्ञाने भविष्यति ॥ २०१४॥ [G.563] स्यादेतत्। किमित्यात्मानमन्तरङ्ग परित्यज्य बाह्यमेव प्रकाशयति? इत्याह
प्रकाशकत्वं बाहोऽर्थे शक्त्यभावात्तु नात्मनि।
शक्तिश्च सर्वभावानां नैवं पर्यनुयुज्यते॥ २०१५॥ १. सा तथा-पा०, गा०। २-२. प्रकाशमानत्वास्तथो-जै०; प्रकाशमानत्वाथो०- पा० । ३. तत:-पा०, गा०।
४. बाह्योऽर्थे– पा०, गा०।