________________
बहिरर्थपरीक्षा
स्यान्मतिः- दन्तिदाह्यादेर्यथाऽसिज्वलनादयः । अताद्रूप्येऽपि कुर्वन्ति छेददाहादयस्तथा ? ॥ २००६ ॥
न
अथापि स्यात् - यथा खड्गो हस्त्यादिकं छिनत्ति, यथा वा वह्निर्दाह्यं दहति, चैते खड्गादयो हस्त्यादिरूपाः, तथा ज्ञानमप्रतिपन्नविषयाकारमपि विषयं परिच्छेत्स्यतीति, एतत् स्यान्मतिरित्यादिना शङ्कते । छेददाहादीत्येतदपेक्ष्य दन्तिदाह्यादेरिति षष्ठी। अत इति एतज्ज्ञानम् । आदिशब्देन प्रतीपादयो नीलादीनां यथाप्रकाशका इत्यादि गृह्यते ॥ २००६ ॥ तदिदमित्यादिनोत्तरमाह-.
तदिदं विषमं यस्मात् ते तथोत्पत्तिहेतवः ।
सन्तस्तथाविधाः सिद्धा न ज्ञानं जनकं तथा ॥ २००७ ॥
[G.561] खड्गादयो हि हस्त्यादीनामुत्पादका एव सन्तो दाहकादित्वेन प्रसिद्धाः, तथा हि—खड्गादिघाराभिघाते विशिष्टसन्धयो गजास्समुपजायन्ते, तथा वह्निसम्पर्कादिन्धनमङ्गारादिरूपम्, एवं घटादयोऽप्यालोकवशाज्ज्ञानजननयोग्या भवन्ति; न त्वेवं ज्ञानेन विषयस्य कश्चिदुपकारः क्रियते, किन्तु विषयेणैव विज्ञानं विशिष्टमुपजन्यत इति कथमकिञ्चित्करं तस्य वेदकं भवेत् । न च तत्कार्यत्वमेव तद्वेकत्वं विज्ञानस्येति युक्तं कल्पयितुम्; मा भूच्चक्षुरादिवेदकत्वमप्यस्येति ॥ २००७॥
भदन्तशुभगुप्तस्त्वाह - " विज्ञानमनापन्नविषयाकारमपि विषयं प्रतिपद्यते; तत्परिच्छेदरूपत्वात्, तस्मान्नाशङ्का कर्त्तव्या - कथं परिच्छिनत्ति, किंवत् परिच्छिनत्ति" इति । आह च"कथं तद् ग्राहकं तच्चेत्तत्परिच्छेदलक्षणम्। विज्ञानं तेन नाशङ्का कथं तत्किंवदित्यपि ॥ (
""
) इति ।
तदत्राहं
४७९
तत्परिच्छेदरूपत्वं
विज्ञानस्योपपद्यते ।
ज्ञानरूपः परिच्छेदो यदि ग्राह्यस्य सम्भवेत् ॥ २००८ ॥ अन्यथा तु परिच्छेदरूपं ज्ञानमिति स्फुटम् ।
सिद्धे हि व्यतिरिक्तार्थपरिच्छेदात्मकत्वे सति सर्वमेतत् स्यात्, तदेव तु न सिद्धम् । तथा हि–न' ज्ञानं सत्तामात्रेण परिच्छिनत्ति; सर्वपरिच्छेदप्रसङ्गात् । नापि तत्कार्यतया; चक्षुरादेरपि परिच्छेदापत्तेः । न च साकारतेष्टा, येन ताद्रूप्यादभाक्तं भवेत् तत्संवेदकम् । तस्माद् ग्रायस्य यः परिच्छेदः स यदि ज्ञानरूपो भवेत्, एवं ज्ञानस्यार्थपरिच्छेदरूपत्वं भवेत्; अन्यथा कथमर्थपरिच्छेदरूपत्वं ज्ञानस्येति स्पष्टभिधीयते । ततश्चार्थस्य परिच्छेदाद् व्यतिरेकात्तु ज्ञानात्मतैव जातेति सिद्धा विज्ञप्तिमात्रता । :
स्यादेतत्-कोऽप्यस्य विशेषोऽस्ति येनार्थमेव परिच्छिनत्ति स चेदन्तया निर्देष्टुं न शक्यते ? इत्याह
वक्तव्यं न च निर्दिष्टमित्थमर्थस्य वेदनम् ॥ २००९ ॥
भवतीति विशेषः । यद्यप्यसाधारणं वस्तु सर्वमेव निर्देष्टं न शक्यते, तथाप्युद्भा
१. विस्पष्ट०- पा०, गा० ।
३. न पाए।
२. दविभक्तं- पार, गा० ।
و