________________
४७८
तत्त्वसंग्रहे "सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्। जन्मन्येकत्र भिन्ने वा सदा कालान्तरेऽपि च॥"
(ो०वा०,निरा०१०८)इति। अतस्तृतीयं पक्षान्तरमाशङ्कितम् ॥ १९९८ ॥ ननु चात्मसंवेदनेऽप्येतेऽनिर्भासादयो विकल्पा: कस्मान्नावतरन्ति? इत्याह
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायतें।
इयमेवात्मसंवित्तिरस्य याऽजडरूपता॥१९९९॥ . न हि ग्राहकभावेनात्मसंवेदनमभिप्रेतम्, किं तर्हि ? स्वयम्=प्रकृत्या प्रकाशात्मतया नभस्तलवालोकवत् ॥ १९९९ ॥ अथ कस्माद् ग्राह्यग्राहकभावेन नेष्यते? इत्याह
क्रियाकारकभावेन न स्वसंवित्तिरस्य तु। एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः॥२०००॥
तदस्य बोधरूपत्वाद् युक्तं तावत् स्वेवदनम्। '
' परस्य त्वर्थरूपस्य तेन संवेदनं कथम् ॥ २००१॥ [G.560] त्रैरूप्यम्-वेद्यवेदकवित्तिभेदेन.॥ २०००-२००१॥
अथापि स्याद्- बाह्यस्याप्यात्मसंवित्तिवद्विनैव ग्राह्यग्राहकभावेन संवित्तिर्भविष्यति? इत्याह
न हि तद्रूपमन्यस्य येन तद्वेदने परम्।
संवेद्येत विभिन्नत्वाद् भावानां परमार्थतः ॥ २००२॥ यद्यप्यसदादिव्यावृत्त्या सदादिरूपमेकं भावेषु कल्प्यते, तथापि तस्य प्रतिपादनार्थम्, परमार्थतो भेदादेकत्वं नास्त्येव, इत्याह-परमार्थत इप्ति ॥ २००२ ॥
. स्यादेतद्-यदि नाम भिन्नो बाह्योऽर्थो ज्ञानात्, तथापि वेद्यो भविष्यति ज्ञानवत् ? इत्याह
बोधरूपतयोत्पत्तेर्ज्ञानं वेद्यं हि युज्यते।
न त्वर्थो बोध उत्पन्नस्तदसौ वेद्यते कथम्॥ २००३॥ एवं स्वसंवेदनं प्रसाध्य, बाह्यस्येदानीं यथा निराकारेण ज्ञानेन वेदनमयुक्तं तथा प्रतिपादयन्नाह
निर्भासिज्ञानपक्षे तु तयोर्भेदेऽपि तत्त्वतः। प्रतिबिम्बस्य ताद्रूप्याद् भाक्तं स्यादपि वेदनम् ॥२००४॥ येन त्विष्टं न विज्ञानमाकारोपरागवत् ।
तस्यायमपि नैवास्ति प्रकारो बाह्यवेदने ॥२००५॥ प्रतिबिम्बस्येति ज्ञानाकारस्य। ताप्यादिति अर्थसारूप्यात् । भाक्तमिति अमुख्यम् । अयमपीति अमुख्यः ताद्रूप्यादुपकल्पितः ।। २००४-२००५ ।। १. तथापि-जै०।
. २. सारूप्यात्-पा०, गा०।