________________
बहिरर्थपरीक्षा
ह्यनवस्थायामनवधारितरूपत्वादनुपाख्यत्वमेव स्वयं प्रतिपादितं स्यात् । ततश्चेष्टसिद्धिरेव परस्य कृता स्यात्। तस्माद् यदेव परिनिष्ठितं त्वया व्यवस्थापितमणुत्वेन, तत्रैवानपाश्रितानवस्थाविकल्पे यदा चिन्ता क्रियते तदा कथमनवस्था स्याद्, यदि परमनवस्थया स्वाभ्युपगमविरोधः कृतः स्यात् ! न तु परस्य किञ्चिदनिष्टमापादितम् । एतावतैव हि परस्येष्टसिद्धेः प्रसङ्गसाधनमेवेदम्। न चासिद्धता हेतोः । तथा हि- परेण परमाणूनां संयुक्तत्वं नैरन्तर्यं तथा बहुभिः सान्तरैः परिवारणं चेत्यभ्युपगतम्; अन्यथा कथं प्रचयो भवेत् ! ततश्च यद्यपि दिग्भागभेदो वाचा नाभ्युपगतः, तथापि संयुक्तत्वादिधर्माभ्युपगमबलादेवापतति । न ह्यसत्यूर्ध्वाधोभागादिदिग्भागभेदे संयुक्तत्वादिपक्षत्रयं युक्तं चित्तादिवदित्युक्तम् ।
यच्चोक्तम्—'' अणुप्रज्ञप्तेरवश्यमुपादानमङ्गीकर्तव्यम्, यत्तदुपादानं स एव परमाणुर्भविष्यति' इति, तदत्रास्त्येव मिथ्याशास्त्र श्रवणचिन्ताहितवासनापरिपाको वातायनादिरेणुप्रतिभासा बुद्धिरणुभ्रान्तेर्निबन्धनम् । न हि यत्प्रज्ञप्त्यां च तदेव कारणं युक्तम्; अप्रज्ञप्तिसत्त्वप्रसङ्गात्, अन्यथाऽऽत्मप्रज्ञतेरात्मैव कारणं स्यात्, न स्कन्धाः । ततश्चाणुवदात्मप्रतिषेधोऽपि न स्यात् । एवं तावदेकत्वं परमाणूनामसिद्धम् । तदसिद्धौ' नाप्यनेकत्वं सिद्धम्, तत्सन्देहात्मकंत्वात् तस्येति नासिद्धोऽणूनामभावव्यवहारे साधनो हेतुः ॥ १९९२-१९९६ ॥ परमाणोरयोगाच्च न सन्नवयवी यतः ।
परमाणुभिरब्धः स परैरुपगम्यते ॥ १९९७॥
४७७
-
एवं तावद् बाह्यार्थस्यानेकस्वभावरहितत्वं प्रसाध्य इदानीमेकस्वभावरहितत्वं प्रसाधयन्नाह – परमाणोरयोग/च्चेत्यादि । [G.559] यैरप्यनारब्धः परमाणुभिस्स्थूल इष्टः, तेषां सोऽपि परमाणुवद्दिग्भागभिन्नत्वादेको न युक्तः ; पाण्यादिकम्पादौ सर्वकम्पादिप्रसङ्गात् । स्पष्टत्वाद्बहुशश्चर्वितत्वान्न पृथक् तस्य दूषणमुक्तम् । तदेवं बाह्यार्थाभावव्यवहारसाधने यदेकानेकस्वभावं न भवतीत्यादौ प्रयोगे नासिद्धो हेतुरिति सिद्धो बाह्यस्य = पृथिव्यादेर्ग्राह्यस्यासद्व्यवहारः । तदसिद्धौ ग्राहकत्वमपि ज्ञानस्य तदपेक्षं कल्पितं नास्तीति सिद्धा विज्ञप्तिमात्रता ॥ १९९७॥
तदेवमर्थायोगाद् विज्ञप्तिमात्रतां प्रतिपाद्य, सम्प्रति ग्राह्यग्राहकलक्षणवैधुर्यात् प्रतिपादयन्नाह -
अनिर्भासं सनिर्भासमन्यनिर्भासमेव च ।
विजानाति न च ज्ञानं बाह्यमर्थं कथञ्चन ॥ १९९८ ॥
न निराकारेण, नापि साकारेण, नापि विषयाकारादन्याकारेण बाह्यस्य ग्रहणं युक्तम्, अन्यश्च प्रकारो नास्ति; तस्मादात्मसंवेदनमेव सदैव ज्ञानं सत्यपि बाह्ये सन्तानान्तर इति सिध्यति विज्ञप्तिमात्रता ।
कैश्चिदन्याकारमपि ज्ञानमन्याकारस्यार्थस्य संवेदकमिष्टम्, यथा किल पीताकारमपि ज्ञानं शुक्लशङ्खग्राहीति । यथाह कुमारिल :
१. पा० गा० पुस्तकयोर्नास्ति ।
२. च प्रत्ययो - पा०, गा० । ३. ०धोभागादिभेदे- पा०, गा० । ५-५. पा०, गा० पुस्तकयोर्नास्ति । ६. बाह्यार्थाव्यवहार० पा०, गा० ।
४. तत्प्रज्ञप्त्यां- गा० ।