________________
९
॥
४७६
तत्त्वसंग्रहे नित्यं सत्त्वादिप्रसङ्गादिति योऽपि सांवृतत्वं भावानां प्रतिपन्नः, तेनाप्यवश्यं सर्वभावानां
सहेतुकत्वमेष्टव्यम्। सति च सहेतुकत्वे न तावत् समकाले कार्यकारणे युक्ते। नापि · प्राक्कार्योत्पत्तेः, कारणस्यासत्त्वेनासामर्थ्यात् । पश्चादपि कार्ये समुत्पन्ने; हेतोरनुपयोगात् । अतः प्राग्भावः सर्वहेतूनामवश्यमङ्गीकर्तव्यः । यथोक्तम्
"असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः। प्राग्भावः सर्वहेतूनां नातोऽर्थः स्वधिया सह"॥
___ (प्र० वा० २.२४६) इति। तदेवं निरंशत्वेऽपि सर्वभावानां न्यायतोऽवस्थितं कालकृतं पौर्वापर्यम्, देशकृतं तु कथं स्याद्यदि सावयवत्वं न स्यात्?-इति चोद्यते। अथासत्यपि सावयवत्वे देशकृतं पौर्वापर्यं स्यात्, चित्तचैत्तानामपि स्यादविशेषादित्युक्तम्। मूर्तत्वकृतोऽस्ति विशेष इति चेत् ? न; तदेवासिद्धमसति सावयवत्वे। केवलं पर्यायेम सावयवत्वमेवोक्तं स्यात्, नान्यो विशेष इति यत्किञ्चिदेतत्। तस्मात् सर्वभावानां न्याय्ये कालकृते पौर्वापर्ये सति यदेतदपरमधिकं कस्यचिद् देशकृतं पौर्वापर्यं तत् सावयवत्वमन्तरेण न सम्भवतीति युक्तमुक्तम्- "दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते" ( ) इत्यलं विस्तरेण ॥ १९८९-१९९१ ॥
___अत्र केचिदाहुः- "त' एव तहणीयांसः प्रदेशाः सन्तु परमाणवः, तत्राप्यवयवकल्पनायां पुनरपि प्रदेशानामेवाणुत्वं भविष्यति, यदि परमनवस्थैव, न तु पुनः सावयवत्वप्रसङ्गेन शक्यतेऽणूनां प्रज्ञप्तिसत्त्वमापादयितुम् । अथापि प्रज्ञप्तिसत्वम्? एवमपि नियमेनैव प्रज्ञप्त्युपादानमङ्गीकर्त्तव्यम्। यत्तत्प्रज्ञप्त्युपादानं तस्यैव परमाणुत्वं भविष्यति। अथासत्त्वमेवाणूनां साध्यते? एवमपि दिग्भागभेदादित्यसिद्धत्वं हेतोः। न हि खरविषाणादयोऽत्यन्तासन्तः पूर्वादिदिग्भागभेदवन्तो भवन्ति । नापीदं प्रसङ्गसांधनं दिग्भागभेदस्यानभ्युपगतत्वात्" इति। अत्र प्रतिविधानमाह
अपेतभागभेदश्च यः परैरणुरिष्यते। तत्रैवेयं कृता चिन्ता नानिष्टासम्भवस्ततः ॥ १९९२ ॥ भागानां परमाणुत्वमङ्गीकुर्वन्ति ते यदा। स्वप्रतिज्ञाच्युतिस्तेषां तदाऽवश्यं प्रसज्यते॥१९९३॥ प्रसङ्गसाधनत्वेन नाश्रयासिद्धतेह च। पराभ्युपेतयोगादिबलादैक्यं पोह्यते॥१९९४॥ तदेवं सर्वपक्षेषु नैवैकात्मा स युज्यते। एकानिष्पत्तितोऽनेकस्वभावोऽपि न सम्भवी॥१९९५ ॥ असन्निश्चययोग्योऽतः परमाणुर्विपश्चिताम्। .
एकानेकस्वभावेन शून्यत्वाद् वियदब्जवत्॥१९९६॥ [G.558) अवश्यं हि परिनिष्ठितरूपं किञ्चिद् वस्तु परमाणुत्वेन तद्वादिनाऽङ्गीकर्त्तव्यम्; अन्यथा १-१. एवं-पा०, गा०।