________________
बहिरर्थपरीक्षा
४७५ [G.556]. प्रयोगः-यदेकानेकस्वभावरहितं तदसद्व्यवहारयोग्यम्, यथा वियदब्जम्। एकानेकस्वभावरहिताश्च पराभिमता: परमाणव इति स्वभावहेतुः। न चासिद्धो हेतुरिति मन्तव्यम्। तथा हि-एकत्वं तावदणूनामसिद्धम्; भूधरादिप्रचितरूपाणां दिग्भागभेदस्य विद्यमानत्वात् । तमेव दिग्भागभेदं भूधराधुपचयान्यथानुपपत्त्या परमाणूनां प्रसञ्जयन्नेकत्वनिषेधं तावदाह-संयुक्तं दूरदेशस्थमित्यादि।
तत्र केचिदाहु:-परस्परं संयुज्यन्ते परमाणव इति, सान्तरा एव नित्यं न स्पृशन्तीत्यपरे, निरन्तरत्वे तु स्पृष्टसंज्ञेत्यन्ये । तत्रैतस्मिन् पक्षत्रयेऽपि मध्यवर्तिनः परमाणोर्बहुभिः परिवारितस्य यदि दिग्भागभेदो न स्यात्, तदा चित्तचैत्तादिकलापस्येव प्रचयो न स्यात्; अनंशत्वात् । तथा हि-येनैकरूपेणैकाण्वभिमुखो मध्यवर्ती परमाणुस्तेनैवापरपरमाण्वभिमुखो यदि स्यात्, तदा परिवारकाणामणूनामेकदेशत्वप्रसङ्गात् प्रचयो न स्यात् । प्रयोग:-यदेकरूपपरमाण्वभिमुखस्वभावं भवेत्, तदेकदेशम्, यथा तस्यैव पूर्वदेशस्थितः परमाणुः, एकप्रासादाभिमुखपूर्वप्रासादवद्वार। एकरूपपरमाण्वभिमुखस्वभावाश्च सर्वे परिवार्यावस्थिताः परमाणव इति स्वभावहेतुः। अतः प्रचयो न स्यात्। अथान्येन रूपेणाभिमुखः? तदा दिग्भागभेदस्य विद्यमानत्वाद् घटिकादिवदेकत्वं न प्राप्नोति!
भदन्तशुभगुतस्तु प्राह-"यथैकस्वभावस्यासव्व्यादिव्यावृत्तस्याने सामान्यं न तत्त्वेन कल्प्यते, एमिहापि परमाणूनामनेकवर्तित्वादनेकत्वं कल्प्यते, न भूतार्थेन। तथा हि-न दिक्पदार्थो नामास्ति कणाददिकल्पितः, तस्यैकस्वरूपत्वादनेकरूप: पूर्वादिप्रत्ययो नस्यात्। केवलमणव एव पौर्वापर्येणावस्थिता दिक्शब्दवाच्याः, ततश्च दिग्भागभेदवत्त्वादिति केवलं बहुभिः परिवारणमेवोक्तं स्यात्, न सावयवत्वम्" ( )इति, तदेतदसम्यक्; तथा हि.-निरवयवत्वाच्चित्तस्येवाणूनां परमार्थतो नोर्ध्वाधोभागाः सन्तीति बहुभिः परिवारणमेव न स्यात्, चित्तचैतसिकादिवत् । ततश्च परिवारकाणामणूनां परमार्थेनाभावात् कथं तद्द्वारेणानेकमध्यवर्त्तित्वम्, येनानेकत्वं देशकृतं कल्प्येत! अथासत्यपि परमार्थत ऊर्ध्वाधोभागवत्त्वे बहुभिः परिवारणं स्यात्, तर्हि चित्तचैत्तानामपि स्यात्। ततश्च परमाणुवच्चित्तादीनामपि देशस्थत्वं स्यात् । नो चेत्, परमाणूनामपि न स्यात्। ततश्च प्रचयो न स्याच्चित्तादिवदित्येकान्तः। - स्यादेतत्-यथा वर्तमानचित्तलक्षणस्यातीतानागताभ्यां' [G.557] चित्तक्षणाभ्यां कालकृतनैरन्तर्यमस्ति, अथ च न वर्तमानचित्तक्षणस्य कलामुहूर्तादिवत् सावयवत्वम्; एवमणूनां सत्यपि बहुभिः परिवारणे न देशकृतं सावयवत्वं भविष्यति? तदेतदसम्यक्; न हि वर्तमानचित्तक्षणस्य पूर्वोत्तराभ्यां नैरन्तर्यं परमार्थतोऽस्ति; तदानीं तयोरसत्त्वात्। न चासता सह पौर्वापर्यं भाविकं युक्तम्; केवलं सहभूतयोर्न कार्यकारणभावोऽस्तीति तद्वारेण परिकल्प्य समुत्थापितं पूर्वापरयोः क्षणयोः सत्त्वं प्राक् पश्चादभाववत् । न चैवमणूनां देशकृतं पौर्वापर्यं परिकल्पितम् प्रचयाभावप्रसङ्गात्। किञ्च-न तावदहेतुकत्वं भावानां युक्तिमत्; १. स्वरूप-पा०, गा० . २. ०प्रासादव-पा०,'
३. घटादिवत्त्वं-पा०, गा० । ४. चित्तचैत्तादिवत्-पा०, गा०। ५. ०चित्तक्षण-पा०, गा०।
६. चित्तलक्षणाभ्यां-पा०, गा० । ७. पा०, गा० पुस्तकयो स्ति। ८. न कलादिमुहूर्तवत्-गा०। ९. वर्तमानचित्तलक्षणस्य-जै०।