________________
४७४
तत्त्वसंग्रहे किञ्च-एकं द्विरूपमिति न केवलमेतत् परस्परव्याहतम्, इदं तु व्याहततरं यत् परस्परविरुद्धरूपद्वयात्मकमिति दर्शयति
परस्परविरुद्धात्मनैकं रूपं कथं भवेत्। [G.555] तथा हि-तुल्यातुल्ये रूपे परस्परपरिहारस्थितलक्षणे, तत् कथं तदात्मकमेकं भवेत् ! संवित्तेश्चेत्यादिना कुमारिलमतमाशङ्कते
संवित्तेश्च विरुद्धानामेकस्मिन्नाप्यसम्भवः ॥१९८५॥ एकाकारं भवेदेकमिति नेश्वरभाषितम्।
तथा हि तदुपेतव्यं यद् यथैवोपलभ्यते ॥१९८६॥ स ह्याह-"एकस्मिन् वस्तुनि परस्परविरुद्धानामाकाराणामसम्भव इत्येतन्नास्ति। कस्मात् ? संवित्तेः कारणात् । तथा हि-एकाकारेणैवैकेन वस्तुना भवितव्यमिति नेयमाज्ञा राज्ञाम्, किन्तु यद्यथोपलभ्यते तत्तथैवाभ्युपगन्तव्यम्; प्रतीतिनिबन्धनत्वाद् वस्तुव्यवस्थायाः। एकानेकाकारा च सत्तारूपादिभेदतः प्रतीतिर्भवन्ती समुपलभ्यते। तस्मात् तथैव व्यवस्थाप्यते" इति ॥ १९८५-१९८६॥ तन्नेत्यादिना प्रतिविधत्ते
तन्नासतोऽपि संवित्ते: कम्बुपीतादिरूपवत्। ।
विरुद्धधर्मसङ्गात् तु नान्यद् भेदस्य लक्षणम् ॥१९८७॥ एवं सति न किञ्चिद् विज्ञानं भ्रान्तं स्याद्। भेदव्यवहारोच्छेदप्रसङ्गश्च। अथ बाध्यमानत्वात् कस्यचिद् भ्रान्तत्वं स्यात् ? तदैकस्मिन्ननेकविज्ञानं बाध्यमानं कथमभ्रान्तं भवेत् ! एवं तावदणूनां न प्रत्यक्षतः,नाप्यनुमानतः सिद्धिरिति न बाह्यार्थापह्नवे प्रत्यक्षविरोधः प्रतिज्ञायाः । नापि हेतोरसिद्धता ॥ १९८७॥ ...
शङ्का-इदानीं परः 'एकानेकस्वभावरहितत्वात्' इत्यस्य हेतोः सन्दिग्धासिद्धतामुद्भावयन्नाह
मा भूत् प्रमाणतः सिद्धिरणूनामस्तु संशयः ।
अभावनिश्चयस्त्वेषां कथं प्रेक्षावतां भवेत् ? ॥ १९८८॥ संयुक्तमित्यादिना प्रतिविधत्ते
संयुक्तं दूरदेशस्थं नैरन्तर्यव्यवस्थितम्। एकाण्वभिमुखं रूपं यदणोर्मध्यवर्तिनः ॥१९८९॥ अण्वन्तराभिमुख्येन तदेव यदि कल्प्यते। प्रचयो भूधरादीनामेवं सति न युज्यते॥१९९०॥ अण्वन्तराभिमुख्येन रूपं चेदन्यदिष्यते। ..
कथं नाम भवेदेकः परमाणुस्तथा सति॥१९९१॥ १-१. नैकरूपं-पा०, गा०।
२. पा० पुस्तके नास्ति। . ३-३. नाप्यनुमानसिद्धिरिति-पा०।
४. अभावस्तेषां-पा०।