________________
बहिरर्थपरीक्षा
४७३ तत्र कोऽयमर्थक्रियासंवादो नाम? यदि बाह्यार्थप्राप्तिः, सा न सिद्धा; बाह्यर्थासिद्धेस्तस्यैव साध्यत्वेन प्रस्तुतत्वात्। "
अथाभिमतार्थक्रियावभासि ज्ञानमेवार्थक्रियासंवादः, तदायमन्यथाऽपि बाह्यार्थालम्बनमन्तरेणापि सम्भाव्यत इति तथा हेतोरनैकान्तिकतैव। कथमन्यथापि सम्भाव्यते? इत्याह-सामर्थ्यनियमाद्धेतोरिति। हेतोः समनन्तरप्रत्ययस्य सामर्थ्यभेदनियमात् । कश्चिदेव हि समनन्तरप्रत्ययः किञ्चिद् विज्ञानं जनयितुं समर्थः, न सर्वः सर्वम्, यथा भवता बाह्योऽर्थ इति तत एव नियमः सिद्धः ॥ १९७२-१९७८ ॥ [G.554] तुल्यमित्यादिना सुमतेर्दिगम्बरस्य मतेन 'अप्रतिवेदनात्' इत्यस्य हेतोरसिद्धतामुद्भावयति
तुल्यं रूपं यदा ग्राह्यमतुल्यं नैव गृह्यते। अणूनां द्वयरूपत्वे तदा किं नोपपद्यते ॥१९७९॥ तत्सामान्यविशेषात्मरूपत्वात् .सर्ववस्तुनः। तुल्यातुल्यस्वरूपत्वाद् द्विरूपा अणवः स्मृताः॥१९८०॥ समानं तत्र यद्रूपं तदक्षज्ञानगोचरम्। एकाकारमतो ज्ञानमणुष्वेवोपपद्यते॥१९८१॥ असमानं तु तद्रूपं योगिप्रत्यक्षमिष्यते।
इति दुर्मतयः केचित् कल्पयन्ति समाकुलम् ॥१९८२॥ स. ह्येवमाह-"सामान्यविशेषात्मत्वात् सर्वपदार्थानां तुल्यातुल्यरूपेण द्विरूपाः परमाणवः। तत्र समानं यद्रूपं तदिन्द्रियैर्गृह्यते, नासमानम्। ततश्चैकाकारं विज्ञानमणुष्वविरुद्धमिति प्रत्यक्षसिद्धाः परमाणवः" इति। समाकुलमिति अप्रतिष्ठम्; एकस्यापि रूपस्य प्रतिनिश्चितस्याभावात् ॥ १९७९-१९८२ ।।
ननु च द्विरूपं वस्त्विति निश्चितरूपमुक्तमेव? सत्यमुक्तम्, अयुक्तं तूक्तमिति दर्शयन्नाह
· द्वे हि रूपे कथं नाम युक्ते एकस्य वस्तुनः।
द्वे तदा वस्तुनी प्राप्ते अपरस्पररूपतः॥१९८३॥ परस्परात्मतायां तु तद् द्वैरूप्यं विरुध्यते।
विशेषश्चोपलभ्येत चक्षुरादिभिरिन्द्रियैः ॥१९८४॥ तथा हि-द्वाभ्यां रूपाभ्यां वस्तुतोऽन्यान्यत्वाद् द्वे एव वस्तुनी प्राप्ते; रूपद्वयस्यैव केवलस्यापरापरस्य भावात्, ततश्च नैकस्य द्विरूपत्वमुक्तम्। एकसमाद्वा वस्तुनो रूपद्वयस्याव्यतिरेकादेकवस्तुस्वरूपवद् रूपद्वयस्य परस्परात्मकतैवेति कथमेकं द्विरूपं स्यात् ! किञ्च- . सामान्यरूपाव्यतिरेकाद् विशेषरूपस्योलम्भप्रसङ्गः । ततश्चेयमसङ्कीर्णा व्यवस्था न प्राप्नोति'समान रूपमक्षज्ञानगोचरोऽसमानं तु योगिप्रत्यक्षमिष्यते' इति ॥ १९८३-१९८४ ॥
१-१. ०परस्वभावात्-गा०।