________________
४७२
तत्त्वसंग्रहे अणवस्त्विति गम्यन्ते कथं पीतसितादयः॥१९७३॥ सूक्ष्मप्रचयरूपं हि स्थूलत्वाद् बाह्यचाक्षुषम् ।। पर्वतादिवदत्रापि समस्त्वेषाऽनुमेति चेत्॥१९७४॥ स्थूलत्वं वस्तुधर्मो हि सिद्धं धर्मिद्वयेऽपि न। न ह्यस्त्यवयवी स्थूलो नाणवश्च तथाविधाः॥१९७५ ॥ अथ देशवतानेन स्थितरूपं तथोदितम्। तथापि भ्रान्तविज्ञानभासिरूपेण संशयः॥१९७६ ॥ वैतथ्यात् स तथा नो चेद् व्यतिरेकेऽप्रसाधिते। तस्मादतिशयः कोऽस्य कार्यसंवादनं यदि॥१९७७॥ कार्यावभासिविज्ञानसंवादेऽपि 'न तूच्यते।
सामर्थ्यनियमाद्धेतोः स च सम्भाव्यतेऽन्यथा ॥१९७८ ॥ [G.553] लिङ्गागमव्यापारानपेक्षमित्यवधारणेन दर्शयति। तथा हि-प्रत्यक्षमविशेषेणोत्पन्नमपि. सद् यत्रैवांशे यथा परिगृहीताकारपरामर्शं जनयति; स एव प्रत्यक्ष इष्यते व्यवहारयोग्यतया, यत्र तु न जनयति तद्गृहीतमप्यगृहीतप्रख्यम्। ततश्च नासिद्धो हेतुः; यतः प्रत्ययाप्रतिवेदनादित्यत्र प्रत्यक्षाभिमते प्रत्यये परामर्शहेतावप्रतिभासनादित्ययमर्थोऽभिप्रेतः । यच्चोक्तम्-"स्थूल इति मानस एष विभ्रमः" इति, तदप्यसम्यक्; तथा हि-प्रमाणेनाणौ सिद्धे सति स्याद्विभ्रमव्यवस्था। यथा क्षणिकत्वस्य प्रमाणेन सिद्धत्वान्नित्यत्वग्रहो भ्रान्तो व्यवस्थाप्यते, न च तथा प्रमाणेन परमाणवः सिद्धाः; तेषामेव विचार्यमाणत्वात्। न चेयं स्थूलभ्रान्तिर्मानसी; स्पष्टप्रतिभासनात्। न च विकल्पानुबद्धस्य स्पष्टाकारो युक्तः; सामान्याकारस्यास्पष्टत्वात्। न च सामान्याकारमन्तरेण विकल्पो युक्तः।
स्यादेतत्-अनित्यतादिवदणवोऽपि सिद्धा एवं प्रमाणतः । तथा हि-यद्यत् स्थूलं तत्तत् सूक्ष्मप्रचयात्मकम्, यथा पर्वतादयः। 'स्थूलं च बाह्यचाक्षुषमवयविद्रव्यमिति स्वभावहेतुः । चाक्षुषग्रहणमचाक्षुषस्य व्यणुकादेर्व्यवच्छेदाय । तत्र यदि स्थूलत्वादिति पारमार्थिकं स्थूलत्वं च वस्तुधर्ममाश्रित्योच्यते हेतुः, तदा साध्यधर्मिणि दृष्टान्तमिति च धर्मिद्वयेऽपि प्रतिवादिनो न सिद्धं स्थूलत्वमिति ? तदा हेतुरसिद्धो दृष्टान्तश्च साधनविकलः ।
अथ यदेतद्देशवितानेन प्रतिभासमानमविचाररमणीयमागोपालादि प्रसिद्ध रूपं स्थूलत्वादित्युच्यते, तदा भ्रान्तेऽपि स्वप्नादिज्ञाने परमाणुप्रचयमन्तरेणापि तथा प्रतिभासि रूपमस्तीति हेतोरनैकान्तिकता।
अथ 'अभ्रान्तत्वे सति' इति विशेषणमुपादीयतेः तदा विज्ञानवादिनं प्रति स्वस्थनेत्राज्ञानाकारस्य यावत् स्वप्रादिज्ञानाकारा व्यतिरेको विशेषो न प्रसाध्यते, तावन्न क्वचिदभ्रान्तत्वं सिद्धमिति विशेषणमप्यसिद्धम्।
स्यादेतद्-अस्त्येव स्वस्थनेत्रादिज्ञानस्य स्वप्रादिज्ञानादर्थक्रियासंवादेन विशेष इति? १. आद्यचाक्षुषम्-पा०, गा०।
२-२. ननूच्यते-पा०, गा०। . ३. ०वधारन- पा०।
४. आधचाक्षुष०-पा०, गा० ।