________________
बहिरर्थपरीक्षा
४७१
तत्र प्रत्यक्षसिद्धोऽर्थो बाह्यो भवन्ननेको वा परमाणुतोऽभिन्नो भवेत्, एको वा तरारब्धोऽवयवी, स्थूलोऽनारब्धो वा-इति पक्षाः । तत्र न तावदाद्यः; निरंशानामनेकेषामणूनां मूर्तानां ग्राहकस्य प्रत्ययस्याप्रतिवेदनात्, नित्यं स्थूलाकारस्यैव ज्ञानस्यानुभूयमानत्वात्।
'यद्वा-"प्रत्यये तेषामप्रतिवेदनात्" इति सप्तम्यन्तस्य पाठोऽसमस्तः । प्रयोगःयः प्रत्यक्षाभिमते प्रत्यये न प्रतिभासते स्वेनाकारेण, न स प्रत्यये स्थूलाकारोपग्राहिणि परमाणुरनेको मूर्त इति व्यापकानुपलब्धिः; आत्माकारप्रतिभासित्वेन प्रत्यक्षस्य व्याप्तत्वात्। तामेव व्याप्तिं प्रतिपादयन्नाह-व्यपेतेत्यादि॥ १९६६-१९६८ ॥
___ अथापि स्यात्–'समुदिता एवोत्पद्यन्ते विनश्यन्ति च' इति सिद्धान्तान्नैकैकरपरमाणुप्रतिभासः इति, यथोक्तं भदन्तशुभगुप्तेन
"प्रत्येकं न चाणूनां स्वातन्त्र्येणास्ति सम्भवः।
अतोऽपि परमाणूनामेकैकाप्रतिभासनम् ॥" ( ) इति? तदेतदनुत्तरमिति दर्शयन्नाह- .
साहित्येनापि जातास्ते स्वरूपेणैव भासिनः।
त्यजन्त्यनंशरूपत्वं न चेत् तासु दशास्वमी ॥१९६९॥ तासु दशास्विति । सहितावस्थांसु॥१९६९॥
किञ्च-यदि निरंशाः परमाणवः, 'न तर्हि [G.552] मूर्त्ता इत्यभ्युपगन्तव्यम्' इति स्ववचनविरोधं प्रतिज्ञायामाह
लब्धापचयपर्यन्तं रूपं तेषां समस्ति चेत्।
कथं नाम न ते मूर्ता भवेयुर्वेदनादिवत् ॥१९७०॥ लब्धोऽपचयपर्यन्तो येन रूपेण स्वभावेन, तत्तथोक्तम्। एतदुक्तं भवति–यद्यपचीयमानावयवविभागेनापचीयमानस्वभावा न भवन्ति, यदि निरंशा इति यावत्, तदा न मूर्ती वेदनादिवत् सिध्यन्ति; विशेषाभावात् ॥ १९७० ॥ तुल्येत्यादिना भदन्तशुभगुप्तस्य परिहारमाशङ्कते
तुल्यापरक्षणोत्पादाद् यथा नित्यत्वविभ्रमः। ..... अविच्छिन्नसजातीयग्रहे चेत् स्थूलविभ्रमः॥१९७१॥ ___स ह्यांह-"यथा सदृशापरापक्षणोत्पादाद्विप्रलब्धस्य गृहीतेऽपि प्रत्यक्षेण शब्दादौ नित्यत्वविभ्रमः, तथा परमाणूनामविच्छिन्नदेशानां सजीतायानां युगपदग्रहणे स्थूल इति मानसो विभ्रमो भवति । ततश्च 'निरंशानेकमूर्तानां प्रत्यर्यप्रतिवेदनात्' (तत्त्व० १९६७) इत्यसिद्धो हेतुः" इति ॥ १९७१॥ स्वव्यापारेत्यादिना दूषणमाह
स्वव्यापारबलेनैव प्रत्यक्षं जनयेद् यदि। न परामर्शविज्ञानं कथं तेऽध्यक्षगोचरा:!॥१९७२॥
क्षणिका इति भावाश्च निश्चीयन्ते प्रमाणतः। १. पा० गा० पुस्तकयो स्ति। २-२. प्रत्येकपरमाणूना-पा०, गा० । ३-३. च तासु-गा०॥
॥