SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ 23. बहिरर्थपरीक्षा "प्रतिबिम्बादिसन्निभम्'' (तत्त्व० ४) इत्येतत्प्रतीत्यसमुत्पादविशेषणसमर्थनार्थमिदानीं विज्ञानवादमुपक्षिपति' । तत्र "विज्ञप्तिमात्रमेवेदं त्रैधातुकम्, तच्च विज्ञानं प्रतिसत्त्वसन्तानभेदानन्तमविशुद्धं चानिधिगततत्त्वानां विशुद्धं च प्रहीणाचरणानां प्रतिक्षणविसरारु च सर्वप्राणभृतामोजायते, न त्वेकमेवाविकारि, यथोपनिषद्वादिनाम्'' इति विज्ञानवादिनां बौद्धानां मतम् । तत्राभ्यां प्रकाराभ्यां विज्ञप्तिमात्रताभीष्टा; बाह्यस्य पृथिव्यादिस्वभावस्य ग्राह्यस्याभावे ग्राहकत्वस्याप्यभावात्। सत्यपि वा सन्तानान्तरे ग्राह्यग्राहकलक्षणवैधुर्यात् । तत्र प्रयोगःयद्यज्ज्ञानं सत्तद् ग्राह्यग्राहकत्वद्वयरहितम्; ज्ञानत्वात्, प्रतिबिम्बज्ञानवत् । ज्ञानं चेदं स्वस्थनेत्रादिज्ञानं विवादास्पदीभूतमिति स्वभावहेतुः। . न चाव्याप्तिरस्य हेतोर्मन्तव्या। तथा हि-न तावत् पृथिव्यादिबाह्योऽर्थोऽस्य ग्राह्यो विद्यते; तस्यैकानेकस्वभावशून्यत्वात् । प्रयोगः–यदेकानेकस्वभावं न भवति न तत्सत्त्वेन ग्राह्यं प्रेक्षावता, यथा व्योमोत्पलम् । एकानेकस्वभावरहिताश्च पराभिमताः पृथिव्यादय इति व्यापकानुपलब्धिः। तृतीयराश्यन्तराभावेनैकत्वानेकत्वाभ्यां सत्त्वस्य व्याप्तत्वाद् व्याप्यव्यापकभावानुपपत्तिर्विपर्यये बाधकं प्रमाणमिति नानैकान्तिकताऽनन्तरस्य हेतोः । नापि विरुद्धता, सपक्षे भावात् । अत्रास्य हेतोरसिद्धतामुद्भावयन्, यथोक्तम्-' भूतान्येव न सन्तीति न्यायोऽयं पर इष्यताम्' (तत्त्व० १८८७) इति । अस्याश्च प्रतिज्ञायाः प्रत्यक्षादिविरोधमादर्शयन्, प्रथमस्य हेतोरव्याप्तिमेव प्रतिपादयितुं पर आह यदि ज्ञानातिरेकेण नास्ति भूतचतुष्टयम्। तत् किमेतन्नु विच्छिन्नं विस्पष्टमवभासते?॥१९६४॥ [G.551] विच्छिन्नमित्यनेन ज्ञानाद् व्यतिरिक्तस्य ग्राह्यस्य सिद्धिमादर्शयति। विस्षष्टमित्यनेन तु प्रत्यक्षताम्। एतदेव प्रसङ्गेन द्रढयन्नाह तस्यैव प्रतिभासेऽपि नास्तितोपगमे सति। चित्तस्यापि किमस्तित्वे प्रमाणं भवतां भवेत्॥ १९६५॥ भासमान इत्यादिना प्रतिविधत्ते भासमान: किमात्माऽयं बाह्योऽर्थः प्रतिभासते। परमाणुस्वभावः किं किं वाऽवयविलक्षणः?॥१९६६॥ न तावत् परमाणूनामाकारः प्रतिवेद्यते। निरंशानेकमूर्ताभप्रत्ययाप्रतिवेदनात् ॥१९६७॥ व्यपेतभागभेदा हि भासेरन् परमाणवः। . नान्यथाऽध्यक्षता तेषामात्माकारासमर्पणात्॥१९६८ ॥ १. प्रतिविवादिसन्निभमित्येतत्-पा०, गा०। २. विज्ञानवादीदमुपक्षिपति-पा०, गा०। ३. मूर्तानां प्रत्यया०-गा० ।
SR No.002259
Book TitleTattvasangraha Part 02
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages450
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy