________________
तत्त्वसंग्रहे
ममाप्रमाणमित्येव वेदोऽर्थं बोधयन्नपि । वक्तुं न द्वेषमात्रेण शक्यते ऽसत्यवादिना ॥ २११०॥ द्वेषादसम्मतत्वाद्वा न च स्यादप्रमाणता । न च प्रीत्यभ्यनुज्ञाभ्यां प्रमाणमवकल्प्यते ॥ २१११ ॥ द्विषन्तोऽपि च वेदस्य नैवाप्रामाण्यकारणम् । किञ्चिज्जल्पन्ति ये नैते भवेयुः सत्यवादिनः ॥ २११२ ॥ धारणाध्ययनव्याख्याकर्मनित्याभियोगिभिः । मिथ्यात्वहेतुरज्ञातो दूरस्थैर्ज्ञायते कथम् ! ॥ २११३॥ अभियुक्ता हि ये यत्र तन्निबद्धप्रयोजनाः । तत्रत्यगुणदोषाणां ज्ञाने तेऽधिकृता यतः ॥ २११४ ॥ ये तु ब्रह्मद्विषः पापा वेदाद् दूरं बहिष्कृताः । ते वेदगुणदोषोक्तीः कथं जल्पन्त्यलज्जिताः ! ॥ २११५ ॥ एवं मन्यते—न हीच्छामात्रेण वस्तुनः सिद्ध्यसिद्धी भवतः, येनाभ्युपगममात्रेण न सिद्धमागमप्रामाण्यं भवेत्, किं तर्हि ? प्रमाणबलेन यत् सिद्धं तद् द्वयोरपि सिद्धम्, दृढतरश्चाग्निहोत्रादिवाक्यात् प्रत्यय इति प्रतिपादितम्, तत् कथमप्रमाणमिति शक्यं वक्तुम्, केवलं वाङ्मात्रमेतद् भवताम् ! निर्युक्तिकमिति सङ्क्षेपार्थः । असम्मतत्वादिति । लोकस्याभ्यनुज्ञा = लोकसम्मतत्वम्। दूरस्था इति । शाक्यादयो वेदात् । तद्धारणादिकर्मबहिष्कृतत्वात् । तन्निबद्धप्रयोजना इति । तत्र = त्र = वेदे, निबद्धम् = उक्तम्, प्रयोजनम् - पुरुषार्थो यागादिलक्षणो येषां . ते तथा । ब्रह्मद्विष इति वेदद्विषः । तदुद्भूतं वा ज्ञानं ब्रह्म ॥ २११०-२११५ ॥
अथ वा-मा भूदागमतो बाधा, तथापि दुष्ट एव प्रतिज्ञार्थः; प्रतिज्ञादिभिर्मानैर्बाध्यमानत्वादिति प्रतिपादयन्नाह—
किञ्च शब्दस्य नित्यत्वं श्रोत्रजप्रत्यभिज्ञया ।
विभुत्वं च स्थितं तस्य क्रोऽध्यवस्येद् विपर्ययम् ॥ २११६ ॥
[G.591] अनेन प्रत्यक्षतो बाधामाह । तथा हि - 'सर्वकालं स एवायम्' इति प्रत्यक्षाभिज्ञायमानत्वान्नित्यत्वं प्रत्यभिज्ञाख्यात् प्रत्यक्षात् सिद्धम् । सर्वत्र देशे प्रत्यभिज्ञानाद्विभुत्वं च सिद्धमिति को विपर्ययं नित्यविभुत्वयोरध्यवस्येत्, नैव कश्चित् ! नित्यत्वव्यापित्वविपर्ययोऽनित्यत्वमविभुत्वं च ॥ २११६ ॥
५०४
तस्मादित्युपसंहरति
तस्माद् या सर्वकालेषु सर्वदेशेषु चैकता। प्रत्यक्षप्रत्यभिज्ञानप्रसिद्धा साऽस्य बाधिका ॥ २११७ ॥ सर्वकालेष्विति । अतीतानागतवर्त्तमानेषु । अस्येति पिर्ययस्य ॥ २११७ ॥ ज्वालादेरित्यादिना प्रत्यभिज्ञाया व्यभिचारमाशङ्कते —
१. पा०, गा० पुस्तकयोर्मास्ति ।
३- ३. प्रत्यक्षसिद्धम् — पा०, गा० ।
२. दृष्ट- जै० 1
४. वा- पा०, गा० ।