________________
श्रुतिपरीक्षा
ज्वालादेः क्षणिकत्वेऽपि प्रत्यभिज्ञेति चेन्न तत् ।
तत्र हि प्रत्यभिज्ञेयं सामान्यं नित्यमेव नः ॥ २११८ ॥ भेदबुद्धिस्तु यत्रांशे स्यात् केनचिदुपाधिना ।
न तत्र प्रत्यभिज्ञानं भेदबुद्धयावधारितम् ॥ २११९ ॥ आदिशब्देन लूनपुनर्जातानां केशनखतृणादीनां निर्झरादीनां ग्रहणम्; यतस्तत्रापि प्रत्यभिज्ञाऽस्ति—त एवामी केशाः, तान्येव तृणानि, सैव निर्झरधारा, तदेव सरितो जलमिति ? नैतदस्ति तत्र हि सामान्यं तेजस्त्वादि प्रत्यभिज्ञायते तच्च नित्यमिष्टमेवेति कुतो व्यभिचारः ! यदपि व्यक्तिरूपमनित्यं तत्र नैव प्रत्यभिज्ञायत इति ? तथापि कुतो व्यभिचारः । यत्रांश इति मन्दरतमादौ । केनचिदुपाधिनेति । मन्दत्वोर्ध्वगमनादिना । कथमवगतम् ? इत्याहभेदबुद्ध्यावधारितमिति। भिन्नबुद्धेरेतदवगतमित्यर्थः ॥ २११८-२११९॥
,
अनुमानैर्बाधामाह–
देशकालादिभिन्नाश्च गोशब्दव्यक्तिबुद्धयः ।
समानविषयाः सर्वां न वा नानार्थगोचराः ॥ २१२० ॥
[G.592] गोशब्दव्यक्तिषु या बुद्धयों देशकालद्रुतध्यविलम्बितादिप्रतिभासभेदभिन्नास्ता एकार्थविषयाः, नानार्थविषया न वा भवन्ति; गोरित्याकारोपग्रहणोत्पाद्यमानत्वात्, सम्प्रत्युपन्नगोबुद्धिवत् ॥ २१२० ॥
५०५
गौरित्युत्पद्यमानत्वात्
सम्प्रत्युत्पन्नबुद्धिवत्। गोशब्दबुद्ध्या ह्यस्तन्या गोशब्दोऽयं प्रकाशितः ॥ २१२१ ॥ अथ वा-या या गोशब्दविषया बुद्धिः साऽयतनगोशब्दविषया; गोशब्दविषयत्वात्, अद्य प्रसूतगोशब्दबुद्धिवत् । गोशब्दविषया च ह्यस्तनी गोशब्दबुद्धिरिति स्वभावहेतुः ॥ गोशब्दविषयत्वेन यथैवाद्य प्रसूतया ।
इयं वा तं विजानाति तद्धेतोः पूर्वबुद्धिवत् ॥ २१२२ ॥
अथ वा- अद्यतनी गोशब्दबुद्धिर्धर्मिणी, ह्यस्तनगोशब्दविषयत्वं साध्यधर्मः; गोशब्दविषयत्वादिति हेतु:, ह्यस्तनी गोशब्दबुद्धिर्दृष्टान्तः । एतदेवाह - इयमित्यादि । इयमित्यद्यतनी । तमिति ह्यस्तनगोशब्दज्ञानोपलब्धं गोशब्दम् । तद्धेतोरिति गोशब्दविषयत्वात् ॥ उभे वाऽप्येकविषये भवेतामेकबुद्धिवत् ।
- देशकालादिभिन्ना वा समस्ता गोत्वबुद्धयः ॥ २१२३ ॥
अथ वा-उभे ह्यस्तन्यद्यतन्यौ बुद्धी एकविषये गोशब्दविषयत्वादेकगोशब्दबुद्धिवत् । उभे चेत्येतदेव दर्शयति । हेतुः प्रकृतत्वात् सुज्ञात इति नोक्तः ॥ २१२३॥
एकगोशब्दजन्याः स्युर्गोधीत्वादेकबुद्धिवत् ।
ह्यस्तनोच्चारणो वाऽपि गोशब्दोऽद्यापि विद्यते ॥ २१२४ ॥
अथ वा-समस्ता गोत्वबुद्धयो देशादिभेदभिन्ना एकगोशब्दजन्याः; गोधीत्वात्,
१. तत्तु — पा०, गा० ।
३. प्रतिभेदभासभिन्ना:- गा० ।
२. पा०, गा० पुस्तकयोर्नास्ति ।
४. ० दाद्योच्चा० - जै० 1