________________
.
तत्त्वसंग्रहे
एकगोबुद्धिवत्। पूर्वं गोशब्दविषया बुद्धयो धर्मिण्यः, एकविषयत्वं च साध्यम्; इदानीं च गोत्वजातिविषया बुद्धयो धर्मिण्यः, एकगोब्दजन्यत्वं साध्यमिति विशेषः । ह्यस्तनमुच्चारणमस्येति ह्यस्तोनोच्चारणः ।
५०६
गोशब्दज्ञानगम्यत्वादद्योच्चारितशब्दवत्
1
रति श्रूयमाणोऽद्य कोऽपि शब्दो मया श्रुतः ॥ २१२५ ।। [G.593] अयं च धर्मिनिर्देशः । अद्यापि वर्त्तनं साध्यधर्मः । शेषं सुबोधम् । गौरिति श्रूयमाणोऽद्येति धर्मिनिर्देशः। तस्य ह्योऽपि श्रवणं साध्यधर्मः । पूर्वोदितादिति गोशब्दज्ञानगम्यत्वात् ॥ २१२५ ॥
हेतोः
पूर्वोदितादेव ह्य उच्चारितशब्दवत्- । शब्दो वा वाचको यावान् स्थिरोऽसौ दीर्घकालभाक् ॥ २१२६ ॥ अथ वा-यावान् वाचकशब्द इत्ययं धर्मिनिर्देशः । तस्य दीर्घकाल भाक्त्वं साध्यधर्मः ॥ २१२६ ॥
सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनात्
"
य ईदृक् स स्थिरो दृष्टो धूमसामान्यभागवत् ॥ २१२७॥ सम्बन्धानुभवापेक्षज्ञेयज्ञानप्रवर्त्तनादिति हेतु: । सम्बन्धानुभवमपेक्षत इति सम्बन्धानुभवापेक्षम्, तच्च तत् ज्ञेयज्ञानप्रवर्त्तनं चेति तथोक्तम् । तस्मात् स्थिरो ज्ञेयः । स्थिरस्यैव विसेषणं दीर्घकालभागिति । कालस्थैर्येण स्थिरत्वमत्राभिप्रेतम्, न तु देशस्थैर्येण पर्वतादेरिवेति विशेषणेन दर्शयति । धूमसामान्यभागवदिति दृष्टान्तः । स्वलक्षणस्यानन्वयान्न लिङ्गत्वमिति सामान्यभाग एव दृष्टान्तः ॥ २१२७ ॥
अस्थिरस्तु न सम्बन्धज्ञानापेक्षोऽवबोधकः । तादात्विकनिमित्तत्वाद् दीपविद्युत्प्रकाशवत् ॥ २१२८ ॥ शब्दानित्यत्वपक्षोऽतः सर्वैरेभिर्विरुध्यते ।
अनुमानैर्दृढैः सिद्धेर्नित्या शब्दास्ततः स्थिताः ॥ २१२९॥ अस्थिरस्त्वित्यादि व्यतिरेककथनम् । तादात्विकनिमित्त्वादिति। तादात्विकम्= तावत्कालिकं व्यवहारकालानुयायि निमित्तं सम्बन्धो यस्य स तथोक्तः, तद्भावस्तत्त्वम्
॥२१२८-२१२९ ॥
ननु चानया दिशा घटादीनामप्येकत्वं शक्यते वक्तुम् । तथा हि- सर्वा देशकालादिभिन्ना घटादिव्यक्तिबुद्धयः समानविषयाः, न वा नानार्थगोचराः; घट इत्युत्पद्यमानत्वात् सम्प्रत्युत्पन्नघटबुद्धिवदित्येवमादि । नचैकत्वं घटादीनामिष्टं दृष्टं वा, तस्मादेते सर्व एव हेतवो व्यभिचारिण इत्याशङ्कयाह
घटादेरेकतापत्तौ जात्येष्टं सिद्धसाधनम् ।
व्यक्तीनामेकतापत्तिं कुर्याच्चेदनया दिशा ॥ २१३०॥
यदि जात्या=जातिरूपेण, घटादीनामेकत्वं साध्यते प्रसङ्गेन, तदासिद्धसाधनम्।
१. अास्तनी - पा०, गा० ।