________________
श्रुतिपरीक्षा
५०७
""
तदुक्तम् - " अंशो ह्येतस्य जात्याख्यो नित्यो ध्वंसीतरो मतः (लो० वा०, श० नि० ३५२) इति । अथ व्यक्तिरूपाणामेकत्वं प्रसङ्गेन साध्यते ? तदापि न व्यभिचारः; प्रत्यक्षादिभिर्बाधितत्वादस्याः प्रतिज्ञायाः, यस्मादबाधिविषयत्वे सतीति सर्वे हेतवः सविशेषणा इहाभिप्रेताः । तत् कुतो व्यभिचार इत्यभिप्रायः ॥ २१३० ॥
तथा दृष्टविरुद्धत्वं वाच्यं सर्वप्रमाणकम् । यतोऽध्यक्षादिभिर्मानैर्व्यक्तिभेदः सुनिश्चतः ॥ २१३१॥ प्रतिज्ञाया इति शेषः । शेषं सुगमम् ॥ २१३१ ॥
पुनरपि शब्दानित्यत्वप्रतिज्ञाया अनुमानार्थापत्तिभ्यां बाधामाह । तत्रेदमनुमानम्[G.594] ययोरकृत्रिमः सम्बन्धस्तावकृत्रिमौ यथाऽऽकाशपरमाणू । अकृत्रिमश्च सम्बन्धः शब्दस्य चादिसंज्ञकेनार्थेन वाच्यवाचकभावलक्षण इति स्वभावहेतुः । असिद्धिं परिहरन्नाहकृत्रिमत्वे च सम्बन्धस्तत्प्रयोगापवर्जनात् ।
तदेकव्यक्तिनिष्ठत्वान्नैवं सार्वत्रिको भवेत् ॥ २१३२ ॥
कृत्रिमत्वे च सम्बन्धस्येत्यपेक्षणीयम् । यदि स॒म्बन्धः कृत्रिमो भवेत्, तदा तत्प्रयोगापवर्जनात्-शब्दप्रयोगविनाशात्, शब्दस्यापि विनाश इति सार्वत्रिकः= सर्वप्रयोगानुयायी, न स्यात् । कुतः ? तदेकव्यक्तिनिष्ठत्वात् = एकगोव्यक्तिनिष्ठत्वात् । तत्रार्थापत्तिःयेयं सम्मुखेऽनेकस्मिन्नेकस्यामपि गोव्यक्तौ सामान्यस्थिते सति गौशब्दान्निष्कृष्टस्य गोत्वस्यैव प्रतिपत्तिः, सा शब्दमन्तरेणानुपपन्ना ॥ २१३२ ॥
कथम् ? इत्याह—
पार्थिवद्रव्यसत्त्वादिलाङ्गलत्वादिसङ्करात्
।
• विना प्रयोगभूयस्त्वं न स्याद् गोत्वावधारणात् ॥ २१३३॥ शाब्दप्रमाणपूर्विकेयमर्थापत्तिः ॥ २१३३ ॥
- तस्मादकृत्रिमः शब्दो न कदाचिद् विनश्यति ।
नित्येन नित्यसम्बन्धादाकाशपरमाणुवत् ॥ २१३४॥ तस्मादकृत्रिम: शब्द इत्यनुमानमुपसंहरति । नित्येनेति । जातिसंज्ञकेनार्थेन' । नित्यम्=सर्वकालं सम्बन्धात् । यथा परमाणूनां नित्येनाकाशेनेति ॥ २१३४ ॥
अर्थापत्तेरनैकान्तिकत्वं परिहरन्नाह
सम्मुखानेकसामान्यविषयश्च
सकृच्श्रुतः ।
निष्कृष्टं स्वार्थवाचित्वं गोशब्दो न प्रपद्यते ॥ २१३५ ॥ बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयेत् । शुक्लादिगमनादीनि सास्नालाङ्गूलतादि च ॥ २१३६॥ शाबलेयादिखण्डादिव्यक्तीः स्वस्वनिबन्धनाः ।
निष्कृष्टगोत्ववाचित्वं
चिरेण प्रतिपद्यते ॥ २१३७ ॥
१. अंशा- पा०, गा० ।
४. ०वधारणा- पा०, गा० ।
२. ० विषयत्वेन पा०, गा० ।
५. जातिसंज्ञाकेना० पा० गा० ।
३. शब्दप्रमाणकम्- पा० गा० 1 ६. वर्जयन्— पा०, गा० ।